SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org org Acharya Shri Kailassagarsuri Gyanmandir वज्जालग्गं [199 : २०.१.199) करिणिकरप्पियणवसरससल्लईकवलभोयणं देती। जह न मरइ सुमरंतो ता कि किसिओ वि मा होउ ॥१०॥ २१. सीहवज्जा [सिंहपद्धतिः] 200) किं करइ कुरंगी बहुसुएहि ववसायमाणरहिपहिं। एक्कण वि गयघडदारणेण सिंही सुहं सुवइ ।।१।। 201) जाइविसुद्धाण नमो ताण मइंदाण अहह जियलोए । जे जे कुलम्मि जाया ते ते गयकुंभणिद्दलणा ॥२॥ गहनं पश्यति, वाञ्छतीति यावत् । गहनात् सरः सरोवरम् । सरोवरागिरिशिखरम् । गिरिशिखरात् पृथ्वीं वाञ्छति । विरहासहनात् (? विरहासहनत्वात् ) कापि स्थितिं न भजते ॥ १९८ ॥ ___199) [ करिणीकरार्पितनवसरसमल्लकीकवलभोजनं दन्ती । यदि न म्रियते स्मरंस्तदा किं कशितोऽपि मा भवतु ।। ] दन्ती यदि न म्रियते तदा कृशोऽपि किं मा भवतु । किं कुर्वन् । स्मरन् । किं तत् । कस्णिीकराप्तिनवाईसल्लकीकालभोजनम् । अयमत्र भावः। आत्मवल्लभाशुण्डादण्डार्पितसल्लकीकवलभोजनं स्मरतो मरणं संभवति का कथा कार्यस्येति ॥ १९९।। ___200) [ किं करोति कुरङ्गी बहुसुतैर्व्यवसायमानरहितैः। एकेनापि गजघटादारकेण सिंही सुखं स्वपिति ॥ ] व्यवसायमानरहितैर्बहुसुतैः कुरङ्गी हरिणी किं करोति । तथा बहुसुतेष्वपि विद्यमानेषु मृगी न निर्भया भवति । सिंही पुनः सुखं स्वपिति, एकेनैव सुतेन सिंह किशोरकेण । यतः किंविशिष्टेन । गजघटादारकेण । अत एव निर्भया सिंही भवतीत्यर्थः ॥ २००॥ ___ 201) [ जातिविशुद्धेभ्यो नमस्तेभ्यो मृगेन्द्रेभ्योऽहह जीवलोके । ये ये कुले जातास्ते ते गजकुम्भनिर्दलनाः ।।] अहह इति अद्भुते । तेभ्यो मृगेन्द्रेभ्यो नमो नमस्कारोऽस्तु । क्व । जीवलोके । किंविशिष्टेम्यः । जातिविशुद्धेभ्यः । यतस्तेषां कुले ये ये जातास्ते ते गजकुम्भनिर्दलनाः ॥ २०१॥ For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy