________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.-189 : १९.४ ] विझवज्जा
१९. विंझवजा [विन्ध्यपद्धतिः] 186) दंतच्छोहं तडवियडमोडणं सरसपल्लवुल्लिहणं।
जइ विझो च्चिय न सहइ ता करिणो कत्थ वञ्चति ॥१॥ 187) सा रेवा ताइ पाणियाइ ते च्चेव करिणिसंघाया।
सा सल्लइ सल्लइ गयवरस्स विझं मुयंतस्स ॥२॥ 188) विझेण विणा वि गया नरवइभवणेसु गोरविज्जंति।
विंझो न होइ अगओ गएहि बहुएहि वि गएहि ॥ ३ ॥ 189) गोमहिसतुरंगाणं पसूण सब्वाण जुज्जए ठाणं ।
दङ्गइंदाण पुणो अह विंझो अह महाराओ॥४॥
धवलाः । अत्र प्राकृते पुंस्त्वेऽपि नपुंसकत्वम् ' । यतस्तेऽतिविधुरे नयुत्तारे नधुच्चतटादौ गुरभरं लीलयैव कर्षन्ति । एवंविधा धवला दुर्लभाः ।।१८५॥
186) [ दन्तक्षोभं तटविकटमोटनं सरसपल्लवोल्लेखनम् । यदि. विन्ध्य एव न सहते तत् करिणः कुत्र व्रजन्ति ।। ] दन्तक्षोभं, तटविकटमोटनं, सरसपल्लवोल्लेखनं सरसपल्लवत्रोटनं यदि विन्ध्यो न सहते तदा करिणः कुतो व्रजन्ति । न कुत्रापि ।। १८६ ।।
187) [ सा रेवा तानि पानीयानि ते चैव करिणीसंघाताः। सा सल्लकी शल्यायते गजवरस्य विन्ध्यं मुञ्चतः ।।] सा रेवा नर्मदा। तानि लोकोत्तराणि स्वादूनि पानीयानि । त एव स्नेहला: करिणीसंघाताः। गणिकारिकावृन्दानि (?) । सा सरसपल्लवा सल्लकी गजवरस्य शल्यायते। किं कुर्वतः। विन्ध्यं मुश्चतः । एते पदार्था विन्ध्योत्पन्नाः ॥ १८७॥
188)[ विन्ध्येन विनापि गजा नरपतिभवनेषु गौरविता भवन्ति । विन्ध्यो न भवत्यगजो गजैर्बहुभिरपि गतैः ।। ] विन्ध्येन विनापि गजा नरपतिभुवनेषु गौरव्यन्ते । विन्ध्योऽगजो न भवति गजैर्बहुभिरप्यन्यत्र गतैः । एतेन गजविन्ध्ययोरपि परस्परं शोभातिशयः ॥ १८८॥
189) [गोमहिषतुरंगाणां पशूनां सर्वेषां युज्यते स्थानम् । दग्धगजेन्द्राणां पुनरथ विन्ध्योऽथ महाराजः ॥ १८९॥]
1Jअत्र प्राकृते नपुंसकेऽपि पुंस्त्वम्
For Private And Personal Use Only