________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वज्जालग्गं
[169: १७.८
169) नेच्छइ सग्गग्गमणं कुवइ भडो सुरवहूहि निजन्तो।
गरुयपडिवक्खपेल्लियसामियकजे अणिम्माए ॥ ८ ॥ 170) एको वि को वि नियगोत्तभूसणो धरउ जणणिउयरम्मि ।
जो रिउघडाण समुहो परंमुहो परकलत्ताणं ॥९॥ 171) वियर्ड सो परिसक्कड सामिपसायं च सो समुव्वहउ ।
दुव्वारवेरिवारणणिवारणा जस्स भुयदंडा ॥१०॥ 172) एक दंतम्मि पयं बीयं कुंभम्मि तइयमलहतो।
बलिबंधविलसियं महुमहस्स आलंबप सुहडो॥ ११॥
मत्स्वामिनं नालिङ्गति । अत एव हे जीव मा बजेति सुभटप्रकाण्डवचनमिदम् ।। १६८ ॥
_169) [ नेच्छति स्वर्गगमनं कुप्यति भटः सुरवधूभिर्नीयमानः। गुरुकप्रतिपक्षक्षिप्तस्वामिकार्येऽनिर्मिते ।।] कश्चित्सुभटः स्वर्गगमनं नेच्छति। सुरवधूभिश्च नीयमानः स्वर्ग, ताभ्यः कुप्यति । क सति । गुरुप्रतिभटप्रेरितस्वामिकायेंऽनिर्मितेऽकृते सति । अयमत्र भावः। स्वामिकार्यकरणोत्थितयशःप्रसरं विहाय, गत्वरं स्वर्गतरुणीसुखं तृणायापि न मन्यत इति ।।१६९।। ____170) [ एकोऽपि कोऽपि निजगोत्रभूषणो ध्रियतां जनन्युदरे । यो रिपुघटानां संमुखः पराङ्मुखः परकलत्रेभ्यः ।। ] एकोऽपि निजगोत्रभूषणं, तं जनन्युदरे धारयतु । यो रिपुघटानां संमुखोऽप्रयोद्धा । पराङ्मुखश्च परकलत्रेभ्यः । एतेनैतस्य शौर्यशीलशालित्वं व्यज्यते ।। १७० ॥
___171) [ विकटं स परिक्रामतु स्वामिप्रसादं च स समुद्बहतु । दुर्वारवैरिवारणनिवारणौ यस्य भुजदण्डौ ॥] स विकट परिशक्नोतु (१ परिष्वस्कतु), स्वामिप्रसादं च स समुद्बहतु । दुर्वारवैरिवारणनिवारणौ यस्य भुजदण्डौ । यो दुःसहशत्रुसामज निवारणबाहुदण्डो भवति ॥ १७१ ॥
172) [ एक दन्ते पदं द्वितीयं कुम्भे तृतीयमलभमानः । बलिबन्धविलसितं मधुमथनस्यालम्बते सुभटः ।। ] सुभटो बलिबन्धविलसितं महुमहस्स वामनमूर्विष्णोरालम्बते। किं कुर्वाणः सुभटः । एकं पदं चरण
For Private And Personal Use Only