________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वजालग्गं
[ 154 : १६.४
154) ओलग्गिओ सि धम्मम्मि होज्ज एहि नरिंद वच्चामो।
आलिहियकुंजरस्स व तुह पहु दाणं चिय न दिटुं॥४॥ 155) आसन्नफलो फणसो व्व नाह सयलस्स सेवयजणस्स।
अम्हं पुण पत्थिव पत्थिओ वि तालो तुम जाओ॥५॥ 156) फणसेण समं महिमंडलम्मि का तरुवराण समसीसी।
करिकुंभसच्छहं मग्गणाण जो देह फलणिवहं ॥६॥
w
कथमपि सौख्यं सेवकजनस्य तुलाग्रेण काकतालीयन्यायेन भवति, तत् क्षपणकस्वर्गारोहण मिव विगोपकशतैः । अयं भावः। यथा संन्यासिनो मृतस्य श्राद्धैश्च तन्माहात्म्यानरविमानमारोहितस्य ददद्दानं वाद्यमानमर्दलं नीयमानस्य संरकाराय सुखं' भवति, तथा सेवकजनस्याहर्निशं सेवां कुर्वाणस्य । उक्तं च यतः । सेवया धनमिच्छद्भिः सेवकैः पश्य किं कृतम् । स्वातन्त्र्यं यच्छरीरस्य मूद्वैस्तदपि हारितम् ।। १५३ ॥ ____154) [ अवलग्नोऽसि धर्मे भूया इदानीं नरेन्द्र व्रजामः । आलिखितकुञ्जरस्येव तव प्रभो दानमेव न दृष्टम् ।। ] हे नरेन्द्र, अवलगितो धर्मे भूयाः । इदानी व्रजामः । आलिखितकुञ्जरस्येव तव प्रभो दानं न दृष्टम् । यथा चित्रलिखितस्य कुञ्जरस्य दानं मदजलं न भवति, तथा तवापीत्यर्थः ।। १५४ ।।
155) [ आसन्नफलो पनस इव नाथ सकलस्य सेवकजनस्य । अस्माकं पुन: पार्थिव प्रार्थितोऽपि तालस्त्वं जातः ।। ] हे नाथ त्वं सर्वस्यापि सेवकजनस्य आसन्नफलः । क इव । पनस इव । हे पार्थिव प्रार्थितोऽपि त्वमस्माकं तालः संजातोऽसि । तालश्च शतवर्ष यावदेकदैव फलति ॥१५५|| __156) [ पनसेन समं महीमण्डले का तस्वराणां समशीर्षिका। करिकुम्भसदृक्षं मार्गणानां यो ददाति फलनिवहम् ।। ] पनसेन सम पृथ्वीवलये का तरुवराणां स्पर्धा, यो मार्गणानां याचकानां करिकुम्भसदृक्षं फलनिवहं ददाति ।। १५६ ।।
1J संस्कार्यमुखं
For Private And Personal Use Only