________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्ययन सूत्रम्
ሀሪሪሪክ
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रोग वा आतंक था अने सेने लीघे केवळ ए प्रज्ञापित धर्मथी भ्रष्ट थाय ते माटे स्त्री पशु तथा पंडग आदिके संसक-संयुक्त शयन आसन, ते निर्बंध-साधु, सेवनारो न थाय ७
- हे शिष्य ! खलु निश्चयेन स्त्रीपशुपंडकादिभिः संसक्तानि शयनासनानि सेवमानस्य निग्रंथस्य ब्रह्मचर्यधारिणोऽपि साधोर्ब्रह्मचर्ये शंकोत्पद्यते किमयमेतादृशो विरुद्धानां शयनासनानां सेवी ब्रह्मचारी भवेत् न वा ? आत्मनस्तु स्त्र्यादिभिरत्यंतापहृतचित्ततया मिथ्यात्वोदयादेव स्त्रीसेवने मैथुने नवलक्षमक्ष्मजीवानां वधो जिनैः प्रोक्तः, तत्सत्यं वा मिथ्या वेत्यादिरूपः संशय उत्पद्यते. पुनर्ब्रह्मचारिणः कांक्षा स्त्रीपशुपंडकादिभिर्मैथुनेच्छोत्पद्यते पुनर्ब्रह्मचारिणः साधोर्ब्रह्मचर्ये विचिकित्सोत्पद्यते मया ब्रह्मचर्यपालने एतावन्महत्कष्टं विधियते, तस्य ब्रह्मचर्यकष्टस्य फलं भवि ष्यति न वा ? तस्माद्वरमेतेषां सेवनं, एतेषां सेवने सांप्रतं मम सुखं जायते, एतादृशी मतिः समुत्पद्यते वाऽथवा भेदं चारित्रस्य विदारणं विनाशं लभेत, वाऽथवोन्मादं कामेन पारवश्यं प्राप्नुयान् वाथवा तादृशस्त्र्यादिसहितानि स्थानानि सेवमानस्य साधोदर्घकालिकं प्रचुरकालभावि स्यादिसेवनाभिलाषोत्कर्षत आहारादावरुचिनिंद्वाराहित्यादिदोषै रोगो दाघज्वरादिः, आतंकः शीघ्रघाती शूलादिः, रोगश्चातंकञ्चानयोः समाहारो रोगातंकं शरीरे भवेत् यतो हि कामाधिक्यात् कामिनां शरीरे दश कामभावा जायंते. युक्तं – प्रथमें जायते चिंता । द्वितीये दृष्टुमिच्छति ॥ तृतीये दीर्घनि:श्वासा-चतुर्थे ज्वरमादिशेत् ॥ १ ॥ पंचमे दयते गात्रं । षष्ठे भक्तं न रोचते ॥ सप्तमे च भवेत्कंप - मुन्मादश्चाष्टमे तथा ॥ २ ॥ नवमे प्राणसंदेहो । दशमे जीवितं त्यजेत् ॥ कामिनां मदनोद्वेगा-त्संजायंते दश स्वमी ॥ ३ ॥ इति
For Private and Personal Use Only
भाषांतर अध्य०१६ ८८८॥