________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्ययन सूत्रम् ॥१००८॥
भाषांतर अध्य०१८ ॥१००८॥
لالالاله لنا ماقطا لالالالالالها وفقا لما فعلة لالالالا
ततेजाः परिवसति, तस्य सुतारानानि भगिनी वर्तते. सा च पोतनाधिपतिना श्रीविजयराज्ञा परिणीता. अन्यदा अमिततेजो राजा पोतनपुरे श्रीविजयसुतारादर्शनार्थ गतः, प्रेक्षते च प्रमुदितमुचितपताकं सर्वमपि पुरं, विशेषतश्च राजकुलं. ततो विस्मिनलोचनोऽमिततेजो राजा गगनतलादुत्तीर्णः, गतश्च राजभुवन, अभ्युत्थानादिना सस्कृतः श्रीविजयेन, कृतमुचितं करणीयं. उपविष्टः सिंहासनेऽमिततेजा राजा पप्रच्छ नगरोत्सवकारणं. श्रीविजयः प्राह, यथेनोऽष्टमे दिवसे मदंतिके एको नैमित्तिकः समायातः, मदनुज्ञाते सिंहासने चोपविष्टः पृष्टश्च मया किमागमनप्रयोजनं ? ततस्तेन भणितं, महाराज! मया निमित्तवलोकितं, यथा पोतनाधिपतेरुपरि इतो दिवसात्सप्तमे दिवसे मध्याह्नसमये विमुत्पतिव्यति, इदं च कर्णकटुकं वचः श्रुत्वा मंत्रिणा भणितं, तदानीं तवोपरि किं पतिष्यति ? तेनोक्तं मा कुप्यत? यथा मयोपलब्धं निमित्तं तथा भवतां कथित न चात्र मम कोऽपि भावदोषोऽस्ति. ममोपरि तस्मिन् दिवसे हिरण्यवृष्टिः पतिष्यतिः मया भणितं त्वयैतन्निमित्तंक पठितं? तेन भणितं त्रिपृष्टवासुदेवभ्रातृअचलबलदेवदीक्षासमये पित्रा समं मयापि प्रव्रज्या गृहीता. तत्रानेकशास्त्रध्ययनं कुर्वता मयाष्टांगनिमित्तमप्यथीतं. तता प्राप्तयौवनः पूर्वदत्तकन्याया भ्रातृभिरुत्पत्राजितः. कर्मपरिणतिवशेन सा मया परिणीता. तेन मया सर्वज्ञप्रणीतनिमितानुसारेण प्रलोकितं, यथा सप्तमे दिवसे पोतनाधिपतेरुपरि विगुत्यातो भविष्यति. एवं तेन नैमित्तिकेनोक्त एकेन मंत्रिणा भणितं, यथा महाराज! समुद्रमध्ये वाहनांतर्भवद्भिः सप्तदिवसान् यावत् स्थेयं, तत्र विगुन पराभवति. अन्येन भंत्रिणा भणितं देवयोगोऽन्यथा कतुं न तीर्यते. यत उक्त
स
For Private and Personal Use Only