________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
।९७०॥
राकम नामाध्ययनं, सम्यक्त्वे सति वर्धमानैर्गुणैः कर्मशत्रुजयलक्षणः पराक्रमो बलं यस्मिंस्तत्सम्यक्वपराक्रमं नामाध्ययनं श्रमणेन तपस्विना, भगवतैश्वर्ययुक्तेन श्रीमहावीरेण काश्यपगोत्रीयेण प्रवेदितं, Pा यत्सम्यक्त्वपराकममध्ययनं श्रद्धाय सूत्रार्थाभ्यां सामान्येन प्रतिपद्य, प्रतोत्य विशेषेण प्रतीतिमानीय,
रोचयित्वा तस्याध्ययनस्यार्थाभिलाषमनुष्ठानाभिलाषमात्मन्युत्पाद्य, पुनः स्पृष्ट्वा मनोवाकायैस्तदुक्तानुष्ठानं संस्पृश्य, पालयित्वा तस्याध्ययनस्य गुणेनातीचारवर्जनेन रक्षयित्वा, तोरयित्वाऽनुष्ठानं पारं नीत्वा, कीर्तयित्वा गुरुप्रति विनयपूर्वकं मया भवद्भ्यः सकशात्सम्यक्प्रकारेण संपूर्णमधीतमिति कथनेन,शोधयित्वा गुरोर्वचनात् पश्चाच्छद्धं कृत्वा, आराध्य यथोक्तोत्सर्गापवादनयविज्ञानेन सेवनं कृत्वा, आज्ञया गुर्वादेशेनानुपाल्य, नित्यमासेव्य बहवो जीवाः सिद्धयंति, सिद्धिगुणयुक्ता भवंति, बुद्धयंति घातिकर्मनिवारणेन तत्वज्ञा भवंति,मुच्यते भवोपग्राहिकर्मचतुष्टयबंधान्मुक्ता भवंति, परिनिर्वाति कर्मदावानलोपशमेन शीतलत्वं प्राप्नुवंति. सर्वदुःखानां शारीरमानसानामंतं कुर्वति. इत्यालापकार्थः. ॥१
॥ मूलम् ॥-तस्स णं अयमठे एवामाहिजइ. ॥२॥ व्याख्या-तस्य सम्यक्त्वपराक्रमाध्ययन
॥९७०।
For Private And Personal Use Only