________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ६५६ ।।
www.kobatirth.org
पुनः स मुनिः साक्षाद्ब्राह्मणरूपेण शक्रेण प्रेरितः सन् ज्ञानचर्यायां परीक्षितः सन्नात्मानं नमेइ इति नये स्थापयति, क्रोधादिकषायरहितो भवतीत्यर्थः ॥ ४५ ॥ अथ द्वाभ्यां गाथाभ्यां चतुणां प्र त्येकबुद्धानामेकसमये सिद्धानां नामान्याह -
॥ मूलम् ॥ करकंडू कलिंगेसु । पंचालेसु य दुम्मुहो ॥ नमीराया विदेहेसु । गंधारेसु य निगई ॥ ४६ ॥ एवं नरिंदेवसहा । निक्खता जिणसासणे ॥ पुत्ते रज्जे ठवेऊणं । सामन्ने पज्जुबहिया ॥ ४७ ॥ व्याख्या - हे मुने! करकंडू राजा कलिंगेषु देशेष्वमृदित्यध्याहारः, च पुनः पांचालेषु देशेषु द्विमुखो नृपोऽभृत, विदेहेषु देशेषु नमी राजाभृत् च पुनर्गधारेषु गंधारनामदेशेषु निर्गतिनामा राजाभूत् एते चत्वारः करकं डूद्विमुखनमिनिर्गतिनामानो नरेंद्रवृषभा राजमुख्याः पुत्रान् राज्ये स्थापयित्वा पश्चाजिनशासने जिनाज्ञायां श्रामण्ये चारित्रे पर्युपस्थिताः, चारित्रयोग्य क्रियानुष्टानतत्पराः संतो निष्कांताः संसारान्निःसृताः भवभ्रमणाद्विरता आसन्नित्यध्याहारः सिद्धिं प्राप्ता इति भावः एतेषां चतुणां प्रत्येकबुद्धानां कथा प्रसंगतः पूर्वं नमेरध्ययनतो ज्ञेया ॥ ४६ ॥ ४७ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
।। ६५६ ॥