________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥५६६॥
WWWS
कलहमुदीरयति, उपशांतमपि पुनरुज्ज्वालयति, पुनर्योऽधर्मोऽसदाचाररतः, पुनर्य आप्तप्रज्ञहा, आतां सद्बोधरूपतया हितां प्रज्ञां हंतीत्याप्तप्रज्ञहा तत्वबुद्धिहंता, पुनयों व्युग्रहो भवति, विशेषेणोद्ग्रहो दंडादिप्रहारजनितयुद्धं व्युग्रहस्तस्मिन् रतः, तथा पुनः कलहे वाग्युद्धे रतः ॥ १२॥
॥ मूलम् ॥-अथिरासन कुकुईए । जत्थ तत्थ निसीयई ॥ आसणंमि अणाउत्ते । पावसमणित्ति वुच्चई ॥ १३ ॥ व्याख्या-पुनयोंऽस्थिरासनो भवति, अस्थिरमासनं यस्य सोऽस्थिरासनः, आसने स्थिरं न तिष्टतीत्यर्थः. पुनर्यः कौकुच्यिकः, कौकुच्यं भंडचेष्टादिहास्यमुखविकारादिकं तकरोतीति कौकुच्यिको भंडचेष्टाकारी. पुनयों यत्र तत्र निषीदति, सचित्तपृथिव्यामप्रासुकभूमौ तिष्टति. पुनरासनेऽनायुक्त आसनेऽसावधानः, स पापश्रमण उच्यते. ॥ १३ ॥
॥ मूलम् ॥-सरयक्खपाओसुयई । सिज्जं न पडिलेहई। संथारए अणाउते । पावसमणित्ति वुच्चइ ॥ १४ ॥ व्याख्या-पुनः स पापश्रमण उच्यते, सः कः? यः सरजस्कपादः स्वपिति, संस्तारके रजोऽवगुंठितचरणोऽप्रमृज्यैव शेते, पुनर्यः शय्यां न प्रतिलेखयति, शय्यां वसतिमुपाश्रयं न
CCCCCASIOCO-OCOC
५६६॥
For Private And Personal Use Only