________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥ ५०८॥
मए समाणं । दुक्खं खु भिक्खायरियाविहारो ॥ ३२ ॥ व्याख्या-अथ पुनर्ब्राह्मणी प्राह-हे पुरोहित! त्वं मया समं भोगान् भुंव? हु इत्यलंकारे, णं इत्यपि. हे स्वामिस्त्वं पुनः सौदर्याणां सहोदराणां भ्रातॄणां खजनसंबंधिनां गृहे स्थितानां मा स्मार्षीः. कोऽर्थः? त्वं मुनिर्भूत्वा पश्चाद्दुःखितः सन् गृहस्थान् स्वबंधून स्मरिष्यसि, तस्मान्मया साधं विषयसुखं भुंजानो गृहे तिष्टेत्यर्थः. खु इति निश्चयेन भिक्षाचर्याविहारो दुःखं दुःखहेतुरेवास्ति. भिक्षाचरत्वमसहमानस्त्वं गृहवासं स्मरिष्यसीति भावः. त्वं क इव सोदरान् स्मरिष्यसि ? जीर्णो हंस इव, वृद्धो हंसो यथा प्रतिश्रोतोगामी सन्मुखजलप्रवाहं तरंस्तत्र तरणाशक्तः पश्चादनुश्रोतोजलतरणं स्मरति, मनसि खिन्नः सन्निति जानाति मया किमर्थ सन्मुखजलप्रवाहतरणमारब्धं? जलवहनमार्गेण सह तरणमेव मम श्रेयस्तथा | त्वमपि माभूरित्यर्थः. ॥ ३३ ॥ अथ भृगुपुरोहित आह
॥ मूलम् ॥-जहा य भोई तणुजं भुअंगो। निम्मोयणिं हिच्च पलाइ मुत्तो ॥ एमए जाया पयहंति भोए । तेहिं कहं नाणुगमिस्समिको ॥३४॥ व्याख्या-भोई इति हे भगवति! हे ब्राह्म
*॥५०८॥
For Private And Personal Use Only