________________
Shri Mahavir Jain Aadhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
॥७२१॥
नविहारी, यथा मृगो वनखंडे नवीने नवीने स्थाने विहरति, तथा नानास्थानविहारीत्यर्थः. तथाई मृगचर्ययातकस्याऽभावे भक्तपानादिगवेषणतयेतस्ततो भ्रमणेन भक्तपानं गृहीत्वा, संयमात्मानं धृत्वा पश्चादृश्यों दिशं, मुक्तिरूपां दिशं प्रतिक्रमिष्यामि, सर्वोपरिस्थो भविष्यामीति भावः ॥ ८३
॥ मूलम् ॥-जहा मिए एग अणेगचारी । अणेगवासे धुवगोयरे य ॥ एवं मुणी गोयरियप्पविढे । नो होलए नोवि य खिंसइज्जा ॥ ८४ ॥ व्याख्या-यथा मृग एकोऽसहायी सन्ननेकचारी भवति, अनेकभक्तपानाचरणशीलो नानाविधभक्तपानग्रहणतत्परः स्यात्, पुनर्यथा मृगोऽनेकवासः स्यात्, पुनर्यथा मृगो ध्रुवगोचरो भवेत्, ध्रुवः सदा गोचरो यस्य स ध्रुवगोचरः, निश्चयेन भ्रमणादेव लब्धाहारः स्यात्. एवममुना प्रकारेण मृगदृष्टांतेन मुनिः साधुर्गोचयाँ भिक्षाटनं प्रविष्टः सन् नो होलयेत्, अनिष्टं नीरसं लब्ध्वेदं कुत्सितं विरसमित्यादिवाक्यैनं निंदयेत्. तथा अपि निश्चयेन | पुननों खिंसयेत, आहारे पानीये वाऽलब्धे सति कमपि गृहस्थं ग्रामं नगरमात्मानं वा न निंदेत.
॥ मूलम् ॥-मिगचारियं चरिस्सामि। एवं पुत्तो जहासुहं ॥ अम्मापिऊहिं अणुन्नाओ।
*454-20
CRECORIANCE-525%
॥७२१॥
For Private And Personal Use Only