________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
k
उत्तरा
ॐ515
हमायामि, नान्यथेति. ततस्तेन तत्स्थानस्थापनयोग्यान्यप्रतिमा तदानीं नास्तीति तस्यां रात्री तत्रोषित्वा स स्वनगरे पश्चाद्गतः. तत्र तादृशी जिनप्रतिमां कारयित्वा पुनरत्रायातस्तां प्रतिमां तत्र स्थापयित्वा मूलप्रतिमां दासी च गृहीत्वोजयिनी स गतः.
तत्रानलगिरिणा मूत्रपुरीषे कृते. तद्नंधेन वीतभयपत्तनसत्का हस्तिनो निर्मदा जाताः. उदायनराज्ञा तत्कारणं गवेषितं, अनलगिरिहस्तिनः पदं दृष्टं, उदायनेन चिंतितं स किमर्थमत्रायातः ? गृहमानुषैरुक्तं सुवर्णगुलिका न दृश्यते. राज्ञोक्तं सा चेटी चंडप्रद्योतेन गृहीता, परं प्रतिमां विलोकयत? तैरुक्तं प्रतिमा दृश्यते, परं पुष्पाणि म्लानानि दृश्यंते. राज्ञा गत्वा स्वयं प्रतिमा विलोकिता, पुष्पम्लानिदर्शनेन राज्ञा ज्ञातं, नेयं सा प्रतिमा, किं त्वन्येति विषण्णेन राज्ञा दूतश्चंडप्रद्योतांतिके प्रेषितः, मम दास्या नास्ति कार्य, परं प्रतिमां त्वरितं प्रेषयेति दूतेन चंडप्रद्योतस्योक्तं. चंडप्रयोतः प्रतिमा नार्पयति. तदा सैन्येन समं ज्येष्टमास एवोदायनश्चलितः, यावन्मरुदेशे तत्सैन्यमायातं, तावज्जलाप्राप्त्या तत्सैन्यं तृषाक्रांतं व्याकुलीबभूव. तदानीं राज्ञा प्रभावतीदेवचिंतितः, तेन समागत्य
For Private And Personal Use Only