________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥१२८४॥
चाम्लं कृत्वा तपश्चरेत. ततस्तदनंतरं संवत्सरार्धे यावन्मासषटकं यावदतिविकृष्टमष्टमद्वादशादितपो नाचरेन्न सेवेत. ॥५७।। ततस्तु संवत्सरा, मासषटकंतु विकृष्टं षष्टाषष्टमादितप आचरेत्. परं तत्रायं विशेषः--परिमितमेव स्तोकमेवाचाम्लं तपस्तस्मिन् संवत्सरे कुर्यात्. कोऽर्थः? पूर्वस्मिन् संवत्सरार्धेऽस्मिन् संवत्सरार्धे च, एवमेकादशे संवत्सरे चतुर्थषष्टाष्टमद्वादशादीनां पारणे आचाम्लं विदध्यादि त्यर्थः, ततः कोटीसहितं तपः स्यात् ॥५८॥ इत्थमेकादशसु वर्षेषु व्यतीतेषु द्वादशवर्षे यत्कर्यात्तदाहकोटीभ्यां प्रत्याख्यानस्यायंताभ्यां सहितं तपो द्वादशे संवत्सरे मुनिः कुर्यात्. कोऽर्थः? विवक्षितदिने प्रभातसमये आचाम्लप्रत्याख्यानं कृत्वा पुनर्द्वितीयदिने तपोतरं विधाय तस्यांते पुनराचाम्लमिति कोटोसहितमुच्यते ( कोटावग्रभागे प्रत्याख्यानाद्यंतकोणरूपे सहिते मिलिते यस्मिंस्तत्कोटोसहितं. कोऽर्थः ? विवक्षितदिने प्रातराचाम्लं प्रत्याख्याय, तच्चाहोरात्र प्रतिपाल्य पुनर्द्वितीयेऽह्नि आचाम्ल मेव प्रत्याचष्टे, ततो द्वितीयस्यारंभकोटिः, आद्यस्य तु पर्यंतकोटिः, उभे अपि मिलिते भवतः, इति तत्कोटिसहितमुच्यते इत्यन्ये.) इत्यनेन द्वादशवर्षाणि तपः कुर्यात्. तु पुनः पश्चान्मासिकेन, तु पुन
ARRIGARHCHHOROCCA-CACCOLICE%G
॥१२८४॥
For Private And Personal Use Only