________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
सटोक
उत्तरा- ऽपराजिताः, अपरैरन्यैरभ्युदयविघ्नहेतुभिः शत्रभिरजिता अपराजिताः पुनः सर्वार्थसिद्धकाः, सर्वेऽर्थाः ॥१२७२॥
सिद्धा येषां ते सर्वार्थसिद्धाः, सर्वार्थसिद्धा एव सर्वार्थसिद्धकाः, इत्यमुना प्रकारेणेते पंचधा अनुत्तरदेवाः. एवमादिका व्याख्याता द्वादशदेवलोकभवा नवग्रैवेयकभवाः पंचानुत्तरभवाः सुरा एवमादयो ज्ञेयाः. चतुरशीतिलक्षाणि सप्तनवतिसहस्राणि तथा त्रयोविंशतिरेतत्प्रमाणं, सर्वविमानापेक्षयाs| नेकविधा आख्याताः ॥ १८ ॥
॥ मूलम् ॥-लोगस्स एगदेसंमि । ते सवे परिकित्तिया ॥ इत्तो कालविभागं तु । तेसिं वुच्छं | चउविहं ॥ १९ ॥ व्याख्या-ते सर्वे देवा लोकस्यैकदेशे परिकीर्तिताः. इतोऽनंतरं कालविभागं तु तेषां देवानां चतुर्विधं वक्ष्ये. ॥१९॥
॥ मृलम् ॥-संतई पप्पणाईया। अपज्जवसियावि य॥ ठिई पडुच्च साईया । सपजवसिटायावि य ॥ २०॥ व्याख्या-संततिं प्राप्य ते देवा अनादयोऽपर्यवसिता अपि. स्थिति कायस्थिति
प्रतीत्य सादयः सपर्यवसिताश्चापि वर्तन्ते. ॥२०॥
PORNAR.COM,
॥१२७२॥
For Private And Personal Use Only