________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsur Gyarmandie
उत्तरा
॥११३०॥
ज्ञानदर्शनयोश्च समानत्वेऽप्यंतरंगत्वेन विशेषतो ज्ञानोपयोगे एव सर्वलब्धीनां प्राप्तिः स्यात् , त-15 सटोकं स्माद् ज्ञानस्य प्राधान्यादादौ तदावरणमुक्तं. तदनु सामान्यज्ञानोपयोगत्वादर्शनावरणमुक्तं. एवं शेषकर्मणामपि विशेषस्तु स्वयमेव ज्ञेयः ॥३॥ इत्थं कर्मणां मूलप्रकृतीरुक्त्वोत्तरप्रकृतीराह
॥ मूलम् ॥-नाणावरणं पंचविहं । सुयं आभिणिबोहिय ॥ ओहिनाण च तईयं । मणनाणं |च केवलं ॥ ४ व्याख्या-ज्ञानावरणं कर्म पंचविधं कथितं, श्रुतज्ञानावरणं १. तथा आभिनिबोधकं | मतिज्ञानं, तदावरणं द्वितीयं २, तृतीयमवधिज्ञानावरणं ३. तथा मनोज्ञानं मनःपर्यायज्ञानावरणं | चतुर्थ. तथा पंचमं केवलज्ञानावरणं ५. ॥ ४॥ अथ दर्शनावरणस्य द्वितीयकर्मणो भेदानाह
॥ मूलम् ॥-निद्दा तहेव पयला । निद्दा निद्दा य पयलपयला य ॥ ततो य थीणगिद्धीओ । पंचमा होई नायवा ॥५॥ व्याख्या-निद्रा सुखजागरणरूपा १. तथैव प्रचला द्वितीया स्थितस्योपविष्टस्य या समायाति २. तृतीया निद्रानिद्रा दःखप्रतिबोध्या ३. चतुर्थी प्रचलाप्रचला, चलमानस्य ॥११३०॥ यायाति सा प्रचलाप्रचला ४. तथा पंचमी स्त्यानगृद्धिनाम्नी ज्ञेया, स्त्याना पुष्टा गृद्धिलोंभो यस्या
For Private And Personal Use Only