SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ॐ तत्सद्ब्रह्मणे नमः। हंसोपनिषत्। नारायणविरचितदीपिकासमेता । हंसोपनिषदं विद्यादष्टात्रिंशत्तमी ततः। अथर्वणे चतुष्खण्डां हंसज्ञानपटीयसा(सी)म् ॥ १ ॥ शास्त्रतो ब्रह्मणि ज्ञाते सति तत्साक्षात्कारायोपाय उपदिश्यते । तत्रापि प्रमाणदाक्याऽऽख्यायिकाऽऽरभ्यते*ॐ गौतम उवाच भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद ॥ ब्रह्मविद्याप्रबोधो हि केनोपायेन जायते ॥ १॥ सनत्सुजात उवाच विचार्य सर्ववेदेषु मतं ज्ञात्वा पिनाकिनः ॥ पार्वत्या कथितं तत्त्वं शृणु गौतम तन्मम ॥ २ ॥ गौतम उवाच भगवनिति । ब्रह्मविद्यायाः प्रबोध आविर्भावः । यद्वा ब्रह्मैव विद्या ज्ञानं तस्याः प्रबोधश्चरमान्तःकरणवृत्तिस्तन्मम मत्संबन्धेन शृणु ॥ १ ॥ २ ॥ अनाख्येयमिदं गुह्यं योगिनां कोशसंनिभम् ॥ हंसस्य गतिविस्तारं भुक्तिमुक्तिफलप्रदम् ॥ ३ ॥ योगिनीकोशो नाम पार्वतीप्रोक्तो ग्रन्थविशेषः । तत्र हि योगतत्त्वं प्रकाशितं तत्तुत्यमिदं शास्त्रम् । योगिनां कोशसंनिभमिति तु युक्तः पाठः । योगिनां योगविदां कोशो निधानं तत्तुल्यम् ॥ ३ ॥ __ अथ हंसपरमहंसनिर्णयं व्याख्यास्यामः। ब्रह्मचारिणे शान्ताय दान्ताय गुरुभक्ताय हंसहसति सदाऽयं सर्वेषु देहेषु व्याप्तो वर्तते । यथा ह्यग्निः काष्ठेषु तिलेषु तैलमिव तं विदित्वा न मृत्युमेति । गुदमवष्टभ्याऽऽधाराद्वायुमुत्थाप्य स्वाधिष्ठानं त्रिः प्रदक्षिणीकृत्य मणिपूरकं गत्वाऽनाहतमतिक्रम्य विशुद्धौ प्राणा* एतदारभ्य फलप्रदमित्यन्तो प्रन्यो ग. छ. पुस्तकयोर्न दृश्यते । । १ ख. च. गिनीको । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy