SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५०२ नारायणविरचितदीपिकासमेता [ १ खण्ड: ] रामाय नमो ह्रीं रामाय नम ॐ रामाय नम इत्यादयोऽप्योंकारायेत्यादिना सूचिताः । रामा स्त्री शीता तस्या धराय धर्चे । रामोऽभिरामोऽधरो यस्य तस्मै । बिम्बाधरायेति युक्तः पाठः ॥ ४ ॥ Acharya Shri Kailashsagarsuri Gyanmandir जानकीदेहभूषाय रक्षोघ्नाय शुभाङ्गिने । भद्राय रघुवीराय दशास्यान्तकरूपिणे ।। ५ ।। 1 कैकेय्या वनयात्रायां सर्वाभरणापहारे कृते जात्या देहमात्रमाभरणरहितं लक्ष्मीशरीरं भूषा यस्य तस्मै । शुभाङ्गिने शुभमङ्गं यस्यास्ति शुभाङ्गी । छान्दसत्वात्कर्मधा रयादपि मत्वर्थीयः साधुस्तस्मै । शुभश्चासावङ्गी चेति वा । अङ्गी प्रधानपुरुषः ॥ १ ॥ रामभद्र महेष्वास रघुवीर नृपोत्तम ।। ६ ।। ( ३२ ) इति श्रीरामपूर्वतापनीयोपनिषदि चतुर्थः खण्डः || ४ || रामभद्रेत्यादि संबोधनचतुष्टयं तत्राऽऽद्यो मन्त्रः स पूर्वमुक्तः ॥ ६ ॥ इति दीपिकायां चतुर्थः खण्डः ॥ ४ ॥ भो दशास्यान्तकास्माकं रक्ष देहि श्रियं च ते ।। त्वमैश्वर्य दापयाथसंप्रत्यौखरमारणम् ॥ कुर्वन्ति स्तुत्य देवाद्यास्तेन सार्धं सुखं स्थिताः ॥ १ ॥ भोभवन्दशास्यान्तक दशाssस्यानि यस्य दशास्यो रावणस्तस्यान्तक । अस्माकं रक्ष रक्षणं कुरु । ते तव श्रियं चास्मभ्यं देहि । यद्वा तेऽस्माकं त्वदीयेभ्योऽस्मभ्यं श्रियं देहीत्यन्वयः । संबन्धसामान्ये कर्मणि षष्ठी । त्वमैश्वर्यमीश्वरभावं दापय देहि राक्षसैर्गृहीतं प्रत्यर्पय । अनेन रामभद्र महेष्वास रघुवीर नृपोत्तमेत्यादिरनुष्टुम्मन्त्रोऽर्थत उक्तः । अथ संप्रतीदानीमाखरमारणम् । खरो नाम राक्षसस्तस्य मारणादामारणमभिव्याप्य यावता कालेन खरो हतस्तावद्देवा ऋषयश्च रामं स्तुवन्तः सुखं स्थिता इति संबन्धः । कुर्वन्ति स्तुत्येति व्यत्ययेन प्रयोगः । स्तुतिं कृत्वेत्यर्थः । देवाद्यास्तेन रामेण सार्धं सुखं यथा स्यात्तथा स्थिताः ॥ १ ॥ स्तुवन्त्येवं हि ऋषयस्तदा रावण आसुरः ॥ रामपत्नी वनस्थां यः स्वनिवृत्त्यर्थमाददे || स रावण इति ख्यातो यद्वा रावाच्च रावणः ॥ २ ॥ स्तुवन्तीति । यथा च देवाः स्तुवन्त्येवमृषयोऽपीत्यर्थः । एवमाखरमारणं देवा ऋषयश्च रामेण सार्धं रामेण स्तुवन्तः सुखं स्थिताः । रामोत्कर्षाद्राक्षसपराभवाच्च । तद १ घ. च. सीता । २ क. ख. छ. रक्षां । ३ छ. त्यासुर' । ४ लदीयानस्मानिति पाठः । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy