________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[६ षष्ठः प्रपाठकः] मैन्युपनिषत् ।
इदानीमध्यायशेषेण प्रकीर्णानि कानिचित्साधनानि साधारणानि क्वचिदसाधारणानि चोपदेष्टुं प्रवर्तते श्रुतिः
ॐ शुचौ देशे शुचिः सत्त्वस्थः सदधीयानः सद्वादी सद्ध्यायी सद्याजी स्यादित्यतः सब्रह्मणि सत्यभिला. षिणि निर्वृत्तोऽन्यस्तत्फलच्छिन्नपाशो निराशः परेष्वात्मव
द्विगतभयो निष्कामोऽक्षय्यमपरिमितं सुखमाक्रम्य तिष्ठति । ॐ शुचौ देशे शुचिरित्यादिना । शुचौ देशे गिरिनदीपुलिनगुहादिशुद्धस्थान उपविश्येति योज्यम् । शुचिर्बाह्याभ्यन्तरशुद्धिसंपन्नः । सत्त्वस्थः सत्त्वगुणस्थः प्रसन्नचित्त इति यावत् । सदधीयानः सदध्यात्मशास्त्राद्यभ्यसन् । सद्वादी सद्ब्रह्म तद्वदनशीलः । सद्ध्यायी ब्रह्मध्यानपरायणः । सद्याजी ब्रह्मयजनशीलः । यजनं तस्येश्वररूपस्य मानसैरुपचारैरभ्यर्चनम् । एवं कुर्वन्स्याद्भवेत् । मुमुक्षुरिति शेषः । इति यतोऽतः सद्ब्रह्मणि निवृत्तोऽपरिमितं सुखमाक्रम्य तिष्ठतीति संवन्धः । सदेव सोम्येदमिति ब्रह्मणि सच्छन्दश्रवणात्सदाख्यं ब्रह्म, तस्मिन्मदाख्ये ब्रह्मणि । किंलक्षणे सत्यभिलाषिणि सति सद्धर्मनिरते पुंस्यभिलाषवति सदनुग्रहेच्छावतीति यावत् । निवृत्तो निष्पन्नो ब्रह्मणि संपन्नो ब्रह्मात्मभावमुपगतोऽत एवान्यः संघाताभिमानिनो जीवरूपादन्योऽपरिच्छिन्नः । तत्फलच्छिन्नपाशस्तस्य ब्रह्मणो यत्फलं स्फूर्तिः प्रतिभासस्तेन च्छिन्नसंसारवासनापाशोऽत एव निराशः प्राप्तव्यविषयाशाशून्यः सर्वात्मब्रह्मरूपत्वात्परेषु जीवान्तरेष्वात्मवदात्मनीव विगतभयो निरातङ्को न चास्य द्वितीयदर्शननिमित्तं भयं भवतीत्यर्थः । आत्मा ह्येषां स भवतीति श्रुत्यन्तरात् । यतो निष्कामः कामवतो हि तदुपघातनिमित्तं भयं भवति कामश्च देहायभिमानपुरःसरस्तद्रहितोऽयं निष्कामत्वान्निर्भय इत्यर्थः । अतोऽक्षय्यं क्षेतुमशक्यमविनाशीति यावत् । अपरिमितमपरिच्छिन्नं वैषयिकसुखविलक्षणमित्येतत् । एवंविधं सुखमाक्रम्याऽऽत्मसात्कृत्वा तिष्ठति परमानन्दमश्नुत इत्यर्थः । निष्कामत्वमुक्तं स्तौति तस्य सर्वसाधनेभ्यः श्रेष्ठयं द्योतयितुम्
परमं वै शेवधेरिव परस्योद्धरणं यन्निष्कामत्वम् । परमं वा इति । यन्निष्कामत्वं तच्छेवधेर्निधेरिव परस्य परमात्मनः परमं सर्वोत्तममुद्धरणं प्रकटीकरणं वै प्रसिद्ध विद्वज्जनेष्वित्यर्थः । एतच्च दुर्घटमिति द्योतयन्पुंसः स्वभावं संकीर्तयति
स हि सर्वकाममयः पुरुषोऽध्यवसायसंकल्पाभिमानलिङ्गो बद्धोऽतस्तद्विपरीतो मुक्तः । १ क. 'भ्यस्यन् । २ क. मत्वं स्तौ। ३ क. 'रस्याऽऽत्म ।
For Private And Personal