SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [६ षष्ठः प्रपाठकः] मैन्युपनिषत् । ४१५ तस्यैतदित्यादिना । तस्य कालस्यैतद्रूपं रूप्यत इति रूपं स्वरूपं किं तद्यन्निमेषादेनिमेषकलाकाष्ठाद्यवयवप्रचयात्संभृतं घटितं द्वादशमासात्मकत्वाद्वादशात्मकं वत्सरं संवत्सररूपमस्त्येतत्तस्य रूपमिति संबन्धः । तथा चोक्तं श्रीभागवते "योऽयं कालस्तस्य तेऽव्यक्तबन्धोश्चेष्टामाहुश्चेष्टते येन विश्वम् । निमेषादिवत्सरान्तो महीयांस्तं त्वेशानं क्षेमधाम प्रपद्ये” इति । निमेषादिसंवत्सरान्तव्यवहाराश्रयः काल इति कालस्वरूपमुक्तं भवति । इदानीमुक्तलक्षणः संवत्सरोख्यः कालस्तदवयवैरेव प्रमेय इति विवक्षस्तावत्कालावयवान्स्थूलतमादिक्रमेण व्युत्पादयति—एतस्येत्यादिना । एतस्य संवत्सरात्मनः कालस्य 'द्वादश मासाः संवत्सरः' इति श्रुतेदशमासात्मकस्यार्धमुत्तरायणषण्मासरूपमाग्नेयमग्निदेवत्यमौष्ण्यप्रधानत्वादस्य षण्मासस्य । अर्ध वारुणं वरुणदेवत्यं दक्षिणायनषण्मासरूपं जलप्रधानत्वादस्य षण्मासस्येत्यर्थः । तथा च तापोदकयोः कार्ययोः पर्यायेण नियतप्रवृत्त्यन्यथानुपपत्त्या यस्तद्धेतुभूतोऽर्थः कल्प्यते स काल उभयायनानुगतः संवत्सरात्मा सिद्ध इत्यर्थः । इदानीमयनावयवभूतान्मासान्व्युत्पादयिष्यंस्तदुपोद्घाततया नाक्षत्रमयनद्वयं प्रकल्प्य तद्वारा कालसद्भावकल्पनामाह मघायं श्रविष्टार्धमाग्नेयं क्रमेणोत्क्र मेण साधं श्रविष्ठार्धान्तं सौम्यम् । मघाद्यमिति । मघानक्षत्रमारभ्य श्रविष्ठाख्यनक्षत्रस्यार्धमधीवसानं यावत्सविता क्रमेण नीचैः क्रमणेन स्वचारगत्या भुङ्क्ते तावदाग्नेयमग्निदेवत्यं तत्र हि कालेऽग्निर्देव इव शीतामनुष्यरुपास्यते । तथा सार्पाद्यं सर्पदेवत्येमश्लेषानक्षत्रं साईं तत्प्रभृतिश्रविष्ठोत्तरार्धान्तं यावत्सवितोत्क्रमेणोलमार्गक्रमणेन स्वचारगत्या भुङ्क्ते तावत्सौम्यं सोमदेवत्यं तस्मिन्हि काले चन्द्रस्तापातैर्मनुष्यैर्देव इवोपास्यत इति । अत्र श्रविष्ठार्धाद्यं सान्तिमिति यद्यपि वक्तुमुचितं तथाऽपि यथाविभक्तयोः समययोः स्वभाववैलक्षण्यस्य स्पष्टीकरणार्थं सार्पाद्यमित्युक्तं श्रविष्ठायां सवितरि वर्तमाने शीतानुवृत्तेस्तदाद्यग्रहणे हि न स्पष्टः स्वभावभेदो निर्दिष्टः स्यादितरत्र तु स्पष्टस्तत्र तापप्राचुर्ये विवादाभावात् । तथा च स्वभावभेदप्रकटीकरणायाऽऽर्थ एव क्रमो विवक्षितो न नक्षत्रपाठक्रम इति भावः । अत्रापि शीतोष्णयोर्नियतप्रवृत्तिहेतुकालकल्पना पूर्ववद्रष्टव्या । इदानीमुक्तैः सप्तविंशतिनक्षत्रीदशराश्यवच्छेदेन मासकृप्तिमाह १ क. दिव। २ क. 'राख्यका। ३ क. 'योः । ४ क. स्वचरणग। ५ क. 'त्यमाले । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy