________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नीलरुद्रोपनिषत् ।
२७९
बभ्रुः क्वचिदवयवे पिङ्गलवर्णः । बभ्रुकर्णः पिङ्गलवर्णकर्णः । नीलागलशीलाः शिव इत्यत्र नीलग्रीवश्च यः शिव इति पाठो युक्तः । पितेति । तृतीयार्थे प्रथमा पित्रेत्यर्थः । अथ वाचं वदिष्यतः पिता देहिमात्रस्य जनको ब्रह्मा येनेश्वरेण हतस्तं त्वं पश्येत्यन्वयः । हे वीर कर्मणि कर्मणि विहितनिषिद्धरूपे ।
इमामस्य प्राशं जहि येनेदं विभजामहे ।
नमो भवाय नमः शर्वाय नमः कुमाराय शत्रवे ॥ नमो नीलशिखण्डाय नमः सभाप्रपादिने ||
इमामस्य जनस्य । प्राशं पृच्छतीति प्राप्तां प्राशं प्रच्छिकां वाचम् । जहि वेदविहितं निषिद्धकर्मविषयं संशयं निराकुर्वित्यर्थः । येन कर्मणेदं जगद्विभजामहे कर्म - भूमिभोगभूमिरूपेण विभक्तं कुर्महे । कुमाराय कालानभिभूताय स्कन्दरूपाय वा । शत्रवे संहर्त्रे । सभाप्रपादिने सभां प्रपद्यते तच्छीलः सभाप्रपादी तस्मै सभ्यायेत्यर्थः । यस्य हरी अश्वतरौ गर्दभावभितःसरौ । तस्मै नीलशिखण्डाय नमः सभाप्रपादिने
नमः सभाप्रपादिन इति ॥ ३ ॥
इत्यथर्ववेदे नीलरुद्रोपनिषत्समाप्ता ॥ १८ ॥
अश्वतरौ ईषदूनमश्वत्वं ययोस्तावश्वतरौ गर्दभादश्वायां जातौ । अभितः सरावभितः सरत इत्यभितःसरौ गर्दभौ वर्तते । यथा पुरुषोत्तमक्षेत्रस्य नीलमाधवोऽधिष्ठातैवं केदारक्षेत्रस्य नीलरुद्रः । द्विरुक्तिः समाप्त्यर्था || ३ |
नारायणेन रचिता श्रुतिमात्रोपजीविना । अस्पष्टपदवाक्यानां नीलरुद्रस्य दीपिका ॥ १ ॥
इति नारायणविरचिता नीलरुद्रोपनिषद्दीपिका समाप्ता ॥ २४ ॥
For Private And Personal