________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२६८ नारायणविरचितदीपिकासमेता
अर्धेति । कृषिकृयथा कूपाद्रज्ज्वा जलमाकर्षत्येवमर्धमात्रया समनोदहनपवना कुण्डली भ्रूमध्यमानयेदित्यर्थः । पङ्कजमाधारादिनालं सुषुम्ना तन्मार्गेण ॥ २० ॥ अ(य)त्र लयस्तदमृतस्थानं तस्य लक्षणमाह
भ्रुवोर्मध्ये ललाटस्तु नासिकायां तु मूलतः ॥ अमृतस्थानं विजानीयाद्विश्वस्याऽऽयतनं महद्विश्वस्याऽऽयतनं महदिति ॥ २१ ॥
इत्यथर्ववेदे ध्यानबिन्दूपनिषत्समाप्ता ॥ १६ ॥ भ्रुवोरिति । भ्रुवोर्मध्ये यो ललाटो ललाटैकदेशस्तदमृतस्थानम् । नासिकायां तु लक्षणीभूतायां मूलतो नासिकामूलादारभ्यामृतस्थानं बोद्धव्यम् । नासिकामूलं नासोपरिभागममृतस्थानमित्यर्थः । तदुक्तम्-"भ्रूमध्ये धाम यत्प्रोक्तं तत्प्रोक्तं सोममण्डलम्" इति। तस्यामृतस्य किं स्वरूपमत आह-विश्वस्येति । विश्वस्याऽऽयतनमित्युक्त आकाशादि स्यात्तदर्थमुक्तं महदिति । ब्रह्मैव निरवधिमहत्त्वाधिकरणममृतं तच्च भ्रूमध्ये धारणया ध्यातं सल्लभ्यते येनामृतो भवतीत्यर्थः । द्विरुक्तिः समाप्त्यर्था ॥ २१ ॥
नारायणेन रचिता श्रुतिमात्रोपनीविना ।
अस्पष्टपदवाक्यानां दीपिका ध्यानबिन्दुके ॥ १ ॥ इति नारायणविरचिता *ध्यानबिन्दूपनिषद्दीपिका समाप्ता ॥ २२ ॥
* इयं ध्यानबिन्दूपनिषद्विन्दुपश्चकान्तर्गता चतुर्थीति ज्ञातव्यं सुधीभिः ।
For Private And Personal