________________
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
जाबालोपनिषत् । नदीपुलिनगिरिकुहरकन्दरकोटरनिर्झरस्थण्डिलेष्वनिकेतवास्यमयत्नो निर्ममः शुक्लध्यानपरायणोऽध्यात्मनिष्ठोऽशुभकर्मनिर्मूलन परः संन्यासेन देहत्यागं करोति स परमहंसो नाम स परमहंसो नामेति ॥ इति षष्ठः खण्डः ॥६॥
___ॐ भद्रं कर्णेभिरिति शान्तिः ॥ इत्यथर्ववेदे जाबालोपनिषत्समाप्ता ॥ १४ ॥
नादी० शून्येति । शुक्लेति । शुक्लं ब्रह्म तच्चिन्तनपरः । अशुभेति । शुभस्याप्युपलक्षणम् । संन्यासेन देहत्यागं करोति न वीराध्वानादिना । परमहंसो नाम प्रसिद्धः । सेतिशब्दद्विरुक्तिः समाप्त्यर्था ॥ इति षष्ठः खण्डः ॥ ६ ॥
नारायणेन रचिता श्रुतिमात्रोपजीविना ।
अस्पष्टपदवाक्यानां जाबालस्य प्रदीपिका ॥ १॥ इति नारायणविरचिता जाबालोपनिषद्दीपिका समाप्ता ॥ १९ ॥ शंदी० नदीपुलिनं महानद्यास्तरिसमीपदेशः पुलिनम् । गिरिकुहरं निबिडवैणवादिसंततो देशः । कन्दरं गिरिगुहादिस्थलम् । कोटरं वृक्षान्तःसुषिरम् । निर्झरः पाथःस्रवणस्थलम् । स्थण्डिलं विशुद्धक्ष्मादेश आवरणशून्यः । शून्यागारादिस्थण्डिलान्ताः श्रुत्या द्वंद्वसमासेनोक्ता अस्माभिः सुखप्रतिपत्त्यर्थं विच्छिद्य व्याख्यातास्तेषु शून्यागारादिष्वनिकेतवासोऽस्यास्तीत्यनिकेतवासी । नानाविधोपकरणादिसंपादने प्रयत्नशून्योऽप्रयत्नः । निर्ममो निर्गतं ममत्वं सर्वेषु वस्तुषु यस्य स निर्ममः । उपलक्षणं निरहंकार इत्यस्यापि । शुक्लः प्रणवोऽशेषदोषशून्यत्वात्स्वयंप्रकाश आनन्दात्मा वा तस्य ध्यानं विजातीयप्रत्ययप्रवाहशून्यत्वेन सजातीयप्रत्ययप्रवाहस्तदेकमेव परमयनं यस्य सः । अध्यात्मनिष्ठा यस्य सोऽन्तर्मुख इत्यर्थः । अशुभानां कर्मणामनेकजन्मानितानां पापानां निर्मूलने नाशने परस्तत्परः स तथा । किं बहुनाऽत्रो. क्तेन यः संन्यासेनानेकाहानुष्ठितेन स्वल्पाहानेहसा वा । देहत्यागं करोति ।स्पष्टम् । स स्वल्पमधिकं वा कालमनुष्ठितसंन्यासः परमहंसः परमहंसशब्दाभिधेयो नाम निश्चितम् । इत्युपनिषत्समाप्तौ ॥ इति षष्ठः खण्डः ॥ ६ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यानन्दात्मपूज्यपादशिष्यस्य श्रीशंकरान
न्दभगवतः कृतौ जाबालोपनिषद्दीपिका समाप्ता ॥ २० ॥
For Private And Personal