________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोपालोतरतापनीयोपनिषत् । २११
योऽसौ सूर्ये तिष्ठति योऽसौ सूर्ये तिष्ठतीति । सूर्ये सूर्यमण्डले । “ सूर्य आत्मा जगतस्तस्थुषश्च " इति मत्रवर्णात् । “ आदित्यो ब्रह्मेत्यादेशः " इत्यादिब्राह्मणाच सूर्यमण्डले तस्यावस्थानमुचितम् ।
योऽसौ गोषु तिष्ठति योऽसौ गोपान्पालयति योऽसौ गोपेषु तिष्ठति योऽसौ सर्वेषु देवेषु तिष्ठति योऽसौ सर्वैर्वेदैर्गीयते योऽसौ सर्वेषु भूतेष्वाविश्य तिष्ठति भूतानि
च विदधाति स वो हि स्वामी भवतीति ॥ ८॥ योऽसौ गोषु तिष्ठतीति । ईदृशोऽपि यो गोपालरूपेण तिष्ठति । योऽसौ गोपा. पालयति रक्षति योऽसौ प्रत्यक्षगोपेषु तिष्ठत्यथ च सर्वेषु देवेष्विन्द्रादिषु तिष्ठति । अध्यात्मव्याख्याने गोष्विन्द्रियेषु तिष्ठति । गोपानिन्द्रियाधिष्ठातून्देवान्पालयति । गोपेविन्द्रियाधिष्ठातृषु तिष्ठत्यधिष्ठातृत्वेन न तेष्वेव किं तु सर्वेषु बुद्ध्यायधिष्ठातृष्वपि देवेषु तिष्ठति । वेदैर्ऋगादिमिर्गीयते निरूप्यते । भूतेषु स्थावरजङ्गमेष्वाविश्य तिष्ठति भूतानि च विदधाति करोति स वो युष्माकं स्वामी भवतीति ॥ ८ ॥ मुनिवचनमाश्चर्यरूपं श्रुत्वा गान्धर्वी पुनराह
सा होवाच गान्धर्वी कथं वाऽस्मासु जातोऽसौ गोपालः कथं वा ज्ञातोऽसौ त्वया मुने कृष्णः को वाऽस्य
मत्रः किं वाऽस्य स्थानं कथं वा देवक्यां जातः सेति । कथं वेत्यसंभावनामुद्भावयति निरासयितुम् । अथवेदृशस्यास्मासु जन्मनि को हेतुरिति प्रश्नः । ईदृशोऽसौ स्वमायया गुप्तः कथं वा भवता ज्ञातोऽसौ त्वया मुने दुर्वासः कृष्ण इति द्वितीयः प्रश्नः । को वाऽस्य मन्त्र इति तृतीयः । किं वाऽस्य स्थानमिति चतुर्थः । कथं वा देवक्यां जात इति पञ्चमः । __को वाऽस्य ज्यायात्रामो भवति कीदृशी पूजाऽस्य
गोपालस्य भवति साक्षात्मकृतिपरयोरयमात्मा
गोपालः कथमवतीर्णो भूम्यां हि वै ॥९॥ कों वाऽस्येति षष्ठः । रामो बलभद्रः । कीदृशी पूजाऽस्येति सप्तमः । साक्षात्प्रत्यक्षः प्रकृतिपरयोर्मायाजीवयोरयमात्मा गोपालः । प्रकृतिपरो योऽयमात्मेति तु युक्तः पाठः । प्रकृतेः परोऽयमात्मेत्यर्थः । 'नान्योऽतोऽस्ति द्रष्टा' इति श्रुतेः।
१ ख. 'सौ गाः पाल । २ ख. सौ दे । ३ ग. 'सौ वेदै ।
For Private And Personal