SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नारायणविरचितदीपिकासमेताउदश्चोऽहमधश्वोर्ध्वश्वाहं दिशश्च प्रदिशश्चाहं पुमानपुमांस्त्रियश्चाहं सावित्र्यहं गायत्र्यहं त्रिष्टुब्जगत्यनुष्टुप्चाहं छन्दोऽहं सत्योऽहंगाईपंत्यो दक्षिणाग्निराहवनीयोऽहं गौरहं गौर्यहमृगहं यजुरहं सामाहमथर्वाङ्गिरसोऽहं ज्येष्ठोऽहं श्रेष्ठोऽहं वरिष्ठोऽहमामोऽहं तेजोऽहं गुह्योऽहभैरण्योऽहमक्षरमहं क्षरमहं पुष्करमहं पवित्रमहंमग्रं च मध्यं च बहिश्च पुरस्ताज्ज्योतिरित्यहमेव सर्वे व्योममेव स सर्वे समा यो मां वेद स देवान्वेद स सर्वांश्च वेदान्साङ्गानपि ब्रह्म ब्राह्मणैश्च गां गोभिर्ब्राह्मणान्ब्राह्मण्येन हविर्हविषाऽऽयुरायुषा सत्येन सत्यं धर्मेण धर्म तर्पयामि स्वेन तेजसा ततो ह वै ते देवा रुद्रमपृच्छं कैलासं वा । ऋषिभिर्द्धतं रुद्रमात्मानमुमापतिं वा । आसीद्यत्ययेन प्रथमः पुरुषः । वामि व्यत्ययेन परस्मैपदम् । स रुद्रो मल्लक्षणोऽन्तरादन्तरं गुह्याद्गुह्यं प्रविष्टो दिशो व्यन्तरं जातावेकवचनं दिशां विविधमन्तरं प्राविशत् । सर्वात्मा सर्वव्यापी च बभूवेत्यर्थः । अपुमान्नपुंसकम् । सावित्री सवितृदेवताकाऽन्याऽप्यक् । गौः सुरभिः । ब्रह्माण्डं पुष्करं पद्मम् । “पुष्करं पङ्कने व्योम्नि पयःकरिकराग्रयोः।। . ओषधीद्वीपविहगतीर्थरागोरगान्तरे” इति विश्वः । अहमेव सर्वे भावाः । व्योममेव सर्वात्मकोऽपि व्योममेव व्योमात्मतां शुद्धात्मतां न जहामीत्यर्थः । व्योमशब्दोऽकारान्तोऽयम् । तहिं त्वमुत्कृष्टोऽन्येऽपकृष्टा इति ब्रह्मणि वैषम्यं स्यादत आह । सर्वे समा इति । समास्तुल्या मत्तो भेदकैर्विशेष रहितास्तेन मत्तोऽन्यन्नास्तीति कथमुत्कर्षापकर्षसंभव इति भावः । ऐक्यज्ञानफलमाह । य इति । साङ्गानपि वेदेत्यनुषङ्गः । ब्रह्म ब्राह्मणैस्तर्पयामीत्यग्रेतनेन संबन्धः । ब्रह्म वेदः स ह्यभ्यासेन तृप्तो भवति । तदुक्तम्-"विद्यामभ्यसनेनैव प्रसादयितुमर्हसि” इति । गां स्त्रियम् । गोभिः पुम्भिः । गोशब्देन लिङ्गमेव विवक्षितं न सुरभीत्वमनडुत्त्वं च जातिः । ब्राह्मण्येन ब्रह्मतेजसा । हविरोदनादि । हविषा संस्कारकेण सर्पिरादिना । पित्राद्यायुः पित्राद्यायुषा । सत्येन सत्यं सत्यवादी सत्यवादिदर्शनेन तृप्तो भवति । एवं धार्मिको धार्मिकस्य । स्वेनेति । यत्तृप्तिहेतुस्तन्ममैव तेजः । तदुक्तम्- “या या प्रकृतिरुदारा यो योऽप्यानन्दसुन्दरो भावः । __ यदपि च किंचिद्रमणीयं वस्तु शिवस्तत्तदाकारः" इति । १ ख. पत्योऽहं द। २ ख. "हं व । ३ ख. 'मक्ष । ४ क. च. हमुग्रं । ५ क. च. च बलिश्च । ६ क. च. सर्वां' । ७ क. च. मपश्यंस्ते देवा रुद्रमपृच्छंस्ते देवा रुद्रमध्यायंस्ते देवा । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy