________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गर्भोपनिषत् ।
१७१ मधुराम्रलवणतिक्तकटुकषायाश्च ते रसाश्च मधुराम्रलवणतिक्तकटुकषायरसास्तान्विन्दते जीवनकृतादृष्टानुसारेण प्राप्नोति । इदानीं सप्तधातुमिति पदस्य व्याख्यानार्थ पूर्वपक्षमाह
षड्जर्षभगान्धारमध्यमपञ्चमधैवतनिषादाश्चेतीष्टानिष्टशब्दसंज्ञाः प्रतिविधाः सप्तविधा भवन्ति ॥२॥ षड्जर्षभगान्धारमध्यमपञ्चमधैवतनिषादाच । षड्नादयः सप्तस्वरा मयूरादिजीवयोनयः सामशिक्षागन्धर्वशास्त्रादौ प्रसिद्धास्ते धातुशब्दवाच्या इति केषांचिन्मते तन्मतं तु दुष्टमिति षड्नादीनां सप्तानामनुवादेनैव दर्शितवती चकारात्सप्त लोकाः पातालानि चेत्यादीनि परेषां मतानि सूचितवती । इति । अनेन प्रकारेण । इष्टानिष्टशब्दसंज्ञाः । सर्वे हि शब्दाः षड्नादिभिः सप्तभिः स्वरैर्व्याप्ताः सुखकारिणो दुःखकारिणश्चेति द्वेधा भवन्ति तद्वैधमुररीकृत्येदं वचनम् । इष्टो मनोनुकूलोऽनिष्टस्ताद्विपरीत इष्टानिष्टाश्च ते शब्दसंज्ञाश्चेष्टानिष्टशब्दसंज्ञाः । प्रतिविधाः। विधां विधां प्रकार प्रति वर्तत इति प्रतिविधाः सर्वप्राणिभेदेषु सुखदुःखकारिण इत्यर्थः । सप्तविधाः षड्नादिस्वरसंभेदात्सुखदुःखकारित्वेन द्विविधा अपि स्वरूपेण सप्तप्रकाराः । भवन्ति । स्पष्टम् ॥ २ ॥ उपेक्ष्यैतन्मतं मतान्तरमप्येतादृशं वर्णमात्रमेव सप्तधातुशब्दाभिधेयमिति दर्शयति
शुक्लो रक्तः कृष्णो धूम्रः पीतः कपिलः पाण्डुरः। शुक्लो गोक्षीरवर्णाभः । रक्तः प्रवालारुणः । कृष्णोऽञ्जनचयाभः । धूम्रः शिखरिशिखरस्थशिखितकेतुसमानवर्णः । पीतः कनकसमानवर्णः । कपिलः कपिलगोवर्णः । पाण्डुरः काश्मीरपाषाणसमानवर्णः । एते सप्त धातुशब्दाभिधेया इति केचन ।। एतदपि पूर्ववदुपेक्ष्यैव स्वमतं दर्शयितुं पूर्ववत्पक्षान्तरमादत्ते
सप्तधातुमिति कस्मात्, सप्तधातुम् । प्रतीकमिदं स्पष्टत्वाच्छृत्या न व्याख्यातमिति व्याख्येयम् । अथवा यथा पञ्चसु वर्तमानमिति पदं विना प्रश्नं व्याख्यातं तद्वत्षड्गुणयोगयुक्तमित्यपि । षट् षड्नाद्या गुणाः शुक्लाद्यास्तेषां योगः संबन्धस्तदपलम्भ इत्यर्थः । तेन युक्तं संबद्धं षड्गुणयोगयुक्तम् । सममन्यत् । इतिः प्रतीकार्थः । कस्मात्केन निमित्तेनोच्यत इति शेषः।
धातुशब्दस्य त्वगादिद्रव्यवाचित्वात्तत्संबन्धात्सप्तधातुशब्दस्य द्रव्यवाचित्वमुपपादयति
__ यथा देवदत्तस्य द्रव्यविषया जायन्ते । ___ यथा येन प्रकारेण । देवदत्तस्य धातुशब्दधातुप्रत्यया द्रव्यविषयास्ताम्रगैरिकादिविषयाः । जायन्ते । स्पष्टम् । तद्वदत्रापीति शेषः ।
For Private And Personal