SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गर्भोपनिषत् । १६५ शतं साशीतिकं संधिशतं सनवकं स्नायुशेतं सप्त शिराशतानि पञ्च मज्जाशतान्यस्थीनि च ह वै त्रीणि शतानि षष्टिश्चार्धचतस्रो रोमाणि कोट्यो हृदयं पलान्यष्टौ द्वादश पलानि जिहा पित्तप्रस्थम्। चतुरिति । तदुक्तं याज्ञवल्क्येन-"द्वौ शङ्खको कपालानि चत्वारि शिरसस्तथा" इति । अष्टाकपालं शिरः संपद्यत इति तु यास्कः। पोडशेति । षोडश पार्थानि षोडश दन्ताः षोडशौष्ठा दन्तस्थलानि षोडश पार्श्वस्थलानि । एवं द्वितीयभाग एवं सति चतुःपष्टिर्दन्ता स्थालैः सह तावन्ति पार्थानि पटलैः सह ।। तदुक्तम्- "स्थालैः सह चतुःषष्टिदन्ता वै विंशतिर्नखाः” इति । “पार्श्वकाः स्थालकैः सार्धमबुंदैश्च द्विसप्ततिः" इति ॥ सप्तोत्तरमिति । तदुक्तम्- 'सप्तोत्तरं मर्मशतम्' इति । साशीतिकमिति । तदु. क्तम्-'द्वे च संधिशते तथा' इति । अवान्तरभेदमादायाऽऽधिक्यं स्मृतावुक्तम् । सनवकमित्यादि नवसंव्यापरिमाणमस्येति नवकं नवकत्वेन सह वर्तते सनवकं सधीरं सानुकूलमिति तद्भावप्रधानो निर्देशो नवस्नायुशतानीत्यर्थः । तदुक्तम्-"शिराशतानि सप्तैव नव स्नायुशतानि च” इति । पञ्च मज्जाशतानीति । मज्जा पेशी । तदुक्तम्'पञ्च पेशीशतानि च” इति । अस्थीनि चेति । तदुक्तम्--'तथाऽस्थ्नां च सह षश्या शतत्रयम्" इति । अर्धचतस्र इति । तिस्रः कोट्य एका चार्धकोटीत्यर्थः । इदं तु स्थूलकेशाभिप्रायेण सूक्ष्माभिप्रायेण तु याज्ञवल्क्योक्तं बोद्धव्यम् । यथा--"रोम्णां कोट्यस्तु पञ्चाशञ्चतस्रश्च तथाऽपराः । सप्तषष्टिस्तथा लक्षाः सार्धाः स्वेदायनैः सह ॥ वायवीयैर्विगण्यन्ते विभक्ताः परमाणुभिः" इति । हृदयमिति । हृदयशब्देन रसः । जिह्वाशब्देन च जलमुच्यते । तदुक्तम्"रसस्य नव विज्ञेया जलस्याञ्जलयो दश" इति । पित्तप्रस्थमिति । पित्तस्य प्रस्थं सपादमानीद्वयं मानी तुरुष्काणां सेरः । तदुक्तम्-'पञ्चपित्तम्' इति । अञ्जलय इति वर्तते । कफस्याऽऽढकं शुक्लं कुडवं मेदः प्रस्थौ द्वावनियतं मूत्रपुरीषमा हारपरिमाणात् । कफस्याऽऽढकमिति । चतुष्प्रस्थं तथाऽऽढकम् । शुक्लं कुडवमिति । शुक्रस्यार्धशराव इत्यर्थः । याज्ञवल्क्येन तु-"श्लेष्मौजसस्तावदेव रेतसस्तावदेव च" इति कफशुक्रयोः समपरिमाणत्वमुक्तम् । मेदः प्रस्थौ द्वाविति । याज्ञवल्क्येन तु-द्वौ १ क. ग. शतमशीतिसंधिशतं नव स्ना। २ क. ग. शतमष्टसहस्रो रोमको । ३ क. ग. 'दयप । ४ क. ख. ग. षयोरहरहः पानपरिमाणं पैप्प। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy