________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रयचा कथा / नित्यमार्ताः मदोदिमा विलवास्त्राणवर्जिताः / भयोद्धान्तधियो दौना नरकेवित्र नारकाः // भवन्ति भवचक्रेऽत्र सत्त्वाः पापिष्ठयानया / हवा नौरोगतां वत्म रुजया परिपौडिताः // तदेषा लेशतो वत्स रुजा ते गदिता मया / मृतिर्मदितविश्वेयं साम्प्रतं ते निवेद्यते / योऽसौ ते दर्शितः पूर्वमायुर्नामा महीपतिः / चतुर्नरपरीवारस्तत्क्षयोऽस्याः प्रयोजकः // प्रयुज्यते विचित्रैश्च बहिर्हेतुशतैरियम् / विषाग्निशस्त्रपानीयगिरिपातातिमाध्वसः / बुभुक्षाव्याधिदुर्व्यालपिपामोषणहिमश्रमः / वेदनाहारदुर्ध्यानपराघातारतिभ्रमैः // प्राणापानोपरोधाद्यैः किं तु तैरप्युदीरिता / तमेवायःक्षयं प्राप्य मृतिरेषा विवर्तते // वौर्य पुनरदोऽमुख्या यदियं देहिनां क्षणात् / हरत्युच्छामनिश्वासं चेष्टां भाषां मचेतनाम् // विधत्ते रक्रनिर्नाशं वैकृत्यं काष्ठभूतताम् / दौर्गन्ध्यं च क्षणादूचं स्वपनं दीर्घनिद्रया // परिवारस्तु नास्त्यस्या न चेयं तमपेक्षते / इयं हि तीब्रवोरण सदैका किंमनुयिका // यतोऽस्या नाममात्रेण भुवनं सचराचरम् / मनरेन्द्र मदेवेन्द्रं कम्पते त्रस्तमानसम् // For Private and Personal Use Only