________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। 645 स्वास्थ्य निहत्य वीर्येण करोत्यातरता पराम् // ज्वरातिमारकुष्ठा:प्रमेहलोहधमकाः / अलकग्रहणौशूलहिक्काश्वासक्षयभ्रमाः // गुल्महद्रोगसंमोहहलामानाहकम्पकाः / कण्डकोठारुचौगोफभगन्दरगलामयाः // पामाजलोदरोन्मादशोषवीसर्पकर्दयः / नेत्ररोगशिरोरोगविद्रधिप्रमुखा भटाः // मर्वेऽप्यस्याः परीवारः खात्मभूतो महाबलः / यत्प्रभावादियं वत्म रुजा जेतुं न पार्यते // अस्ति नौरोगता नाम वेदनौयाख्यभूपतेः / पदातिनेह मातेन प्रयुक्ता भवचक्रके॥ सावर्णबलमौन्दर्यधौतिस्मृतिपाटवैः / परीता कुरुते लोकं सुखसन्दर्भनिर्भरम // तां चैषा दारुणा हत्वा क्षणबीरोगता रुजा / प्रवर्तयति लोकानां तौवाति तनुचित्तयोः / तेनेयं तद्विघाताय रुजेत्थं वत्म वलाते / एतदाक्रान्तमूर्तीनां चेष्टाख्यातुं न पार्यते // तथाहि / कूजन्ति करुणध्वानः क्रन्दन्ति विकृतस्वराः / रुदन्ति दीर्घपूत्कारैरारटन्ति सविकलाः // गाढं दौनानि जल्पन्ति सण्टन्ति च मुहुर्मुडः / लठन्तीतस्ततो मूढाश्तयन्ते न किंचन // For Private and Personal Use Only