________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घटमः प्रस्तावः / 1103 दुःखलाभादिकं सर्वे चिरनिरूपितमेवोपनमते तदलं तत्र विषादादिनेत्यावेदितमिति / अतः सुतन्त्रितमेवेदं सर्वमास्ते / किं नश्चिन्तयेत्याकलय्य निराकुलौभूतो राजा // दूतश्च किमधुना कर्तव्यमिति पृष्टा लवलिकया मदनमञ्जरी। तथोक्र। यदि तातोऽम्बा च मामुत्मकलयति ततोऽहं स्वयमेव पर्यव्य वसुन्धरामात्माभिरुचितं वरं वृणोमौति / ततः कथितं मे लवलिकया तवचनं / निवेदितं मया राज्ञे। चिन्तितमनेन / सुन्दरमेवेदं मन्त्रितं वत्मया / अयमेव तस्य देवनिर्दिष्टस्य वरस्य लाभोपाय इति विचिन्यानुज्ञाता वत्मा मदनमञ्चरौ। ततो ग्रहोछेमामात्मसहचरौं लवलिकां निर्गता सा वरार्थं सकलभूतलावलोकनाय / गतानि कतिचिदिनानि। स्थितो राजाहं च वत्मास्नेहेन मोन्माथको दिशो निभालयन्तौ / अन्यदा समागतेयं भविषादा लवलिका / दृष्ट्वा चेमा ट्रात्य पतितमावयो हदयं हा किमितीयमेकाकिनी भविषादा चोपलभ्यत इति भावनया / कृतोऽनया प्रणामः। मयोकं / अपि भने लवलिके कुशलं वत्सायाः / अनयोक्तं / अम्ब कुशलं / मयोतं / क्व पुनरिदानौं वर्तते वत्मा / अनयोक्तं / पाकर्णयत्वम्बा / अस्ति तावदितो निर्गत्य विलोकितमावान्यामनेकग्रामनगरादिविभूषितं विविधवृत्तान्तभूरिभूमण्डलं / प्राप्ते सप्रमोदपुरं। दृष्टं ततो बहिराह्लादमन्दिरमुद्यानं / संजातमावयोस्तद्विलोकनकुतहलं / स्थिते तस्योपरिष्टात् / दृष्टौ सुरवर कुमाराकारधारको तत्र द्वौ राजपुरुषौ / तयोश्चैकमवलोकयन्ती प्राप्तात्यन्तमशरोरशरप्रहारगोचरं प्रियमखौ। ततस्तद्वेदना For Private and Personal Use Only