________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 106. उपमितिभवप्रपच्चा कथा / अन्यच्च / तेऽप्याभ्यां हन्त निमुना न मन्येव कदाचन / किंतु प्रवर्तकावेतो ते तु ज्ञेयाः पदातयः // अस्यैव च विशेषस्य सिद्ध्यर्थममुना कृता। दोषसन्दर्शिकामौषां क्रमेणेत्यमुदाहृतिः // समस्तानर्थमार्थस्य तदित्यं जनकाविमौ / अस्य संमारिजीवस्य महामोहपरिग्रहौ / तथापि लोकः पापात्मा गुरुवाक्यशतैरपि / नाचरत्यनयोत्यागं तत्र किं बत कुर्महे / / एषापि दुष्टा व्याखाता श्रुतिः कोविदसूरिणा / तथापि रज्यतेऽत्यर्थमस्यामेष जडो जनः // अथ प्रज्ञा विशालां तां गाढं संवीक्ष्य भाविताम् / म भव्यपुरुषोऽवादौदम्ब किं चिन्तितं त्वया // तयोकं पुत्र ते सर्व कथयिष्ये निराकुला / दत्तावधानस्वं तावदस्य वाक्यं निशामय / किं च। वत्स मोत्तालतां कार्षीः किलेदं न ममाप्यते / कथितप्रायमेतेन सर्वमात्मविचेष्टितम् // ततस्वष्णौँ स्थिते तत्र राजपुचे ममादरम् / संसारिजौवः प्रोवाच शेषामात्मकथानिकाम् // उक्तं च तेन / अन्यदा भार्यया भद्रे नौतोऽहं भद्रिले पुरे / For Private and Personal Use Only