________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। 1.88 1.86 थत। अहो संसारिजीवस्य महामोहपरिग्रहो। मन्येऽहं सर्वपापेभ्यः सकाशादतिदारुणौ // तथा। क्रोधादिभ्यो यदा जातमस्थामर्थकदम्बकम् / तदा नानेन कथितः सम्यग्दर्शनमौलकः // ततस्तैर्निर्गुणस्थास्य यत्तादृशं विजृम्भितम् / आलोच्यमानं तन्मेऽद्य नाश्चर्य प्रतिभामते / श्राभ्यां पुनरिदं सर्वं सम्यग्दर्शनमौलके / संजातेऽपि कृतं दीर्घसंसारपतनादिकम् / तदेतौ सगुणस्यापि यावनर्थ विधायको। तावेव दारुणौ नूनं महामोहपरिग्रहौ // अथवा। यत्रेमौ तत्र ते सर्व मन्ति क्रोधादयः स्फुटम् / समुदायात्मकस्तेषां महामोहो हि वर्णितः / / परिग्रहोऽपि सर्वषां तेषामाधारतां गतः / म हि लोभसखो लाभो महामोहबलेऽधिकः // तदेतौ गुणघाताय मर्वेषां मूलनायकौ / जातौ संसारिजीवस्य यत्तनाश्चर्यमौदृशम् // किं च। मद्भूतगुणघाताय सन्ति क्रोधादयोऽप्यलम् / अनयोस्तु विशेषार्थमनेनेत्यमुदाहृतम् // 137 For Private and Personal Use Only