________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / कथं / हा बाले हा प्रिये मुग्धे हा चार्वङ्गि वरानने / हा पद्मनेत्रे हा सुभ्र हा कान्ने वल्गुभाषिणि // हा भर्तवत्सले देवि श हा मदनसुन्दरि / क गतामि विहायेमं रुदन्तं धनवाहनम् // दौयतां दर्शनं पूर्ण संभाषो मे विधीयताम् / जौयतां मामके देहे वैक्लव्यमपनीयताम् // इत्येवं प्रलपत्रुच्चरकलङ्कस्य धीमतः / भद्रे तत्तादृशं वाक्यं न जानामि विचेतनः // दयापरीतचित्तोऽसौ ततो मां वीक्ष्य तादृशम् / अकलङ्कस्तदा भने पुनः प्राह महामतिः // यथा भो भो महाराज घनवाहन न युक्रमौदृशं भवादृशां विधातुं बालचरितं। तत्परित्यज क्लोवतां / उररीकुरु धौरतां / वस्थतां नयान्तःकरणं / स्मरात्मानं / विरहवेममेकान्तेनाहितं महामोहं / मुञ्च शोकं / शिथिलय परिग्रहं / अनुवर्तय सदागमं / समाचर तदुपदेशं / जनय मम चित्तप्रमोदं। किं विस्मृतं भवतो ऽधुनैव तत्साधुनिवेदितं भवप्रदीपनकं / किं न स्मरसि तत्संसारापानकं। किं न चिन्तयमि तं भवारघट्ट / किं न ध्यायसि तं सकर्मकजीवचट्टमठवृत्तान्तं / किं न पर्यालोचयसि तो मनुष्यजन्मरत्नौपदुर्लभतां / किं न निर्विद्यसे वसंस्तत्र जन्मसन्तानहट्टमार्ग। किं विस्मारयसि तां चित्तवानरलौवरूपतरलतां / किं नानुशीलयमि तस्यैव मतनं रक्षणं / किं बंभ्रमौषि तेषु विषयविषवृक्षेषु / For Private and Personal Use Only