________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / 1057 विमुकामेषमलत्यं दययेदमभाषत // किमिदं भोः समारब्धं भवता धनवाहन / किं मे विस्मारितं वाक्यं किं वा त्यतः सदागमः // किमेष दुष्टलोकेन भवानेवं खलौकतः / कृतं च ज्ञाततत्त्वेन किमिदं बालचेष्टितम् // यां च ते स्मरतो नित्यं देवौं मदनसुन्दरौम् / गोकोऽयं बाधते चित्तं तत्काय किं न बुध्यसे / तथाहि। सर्वेऽमी जन्तवो नित्यं कृतान्तमुखकोटरे / वर्तन्ते ऽतः क्षणं भूप यन्नौवन्ति तदद्भुतम् // स हि नापेक्षतेऽवस्था प्रेमाबन्धनसन्दराम् / दलयस्येव भूतानि मत्तवगन्धवारण: // यद्यत्मज्जनसत्पद्मं जननेत्रमनोहरम् / तत्तनिपातयत्येष कृतान्तहिमोकरः // न मन्त्रा म धनं भूरि न वैद्या न च भेषजम् / न बान्धवा न देवेन्द्रा मृत्यो रक्षन्ति देहिनम् // इत्यदृष्टप्रतीकारे जाते मरणविवरे / सिद्धोऽयं मार्ग इत्येवं ज्ञात्वा को विकलो भवेत् // तदेवं कुरुते नित्यमश्रान्तो धर्मदेशनाम् / मोऽकलको महाभागो मत्तः शोकगमेच्छया // अहं पुनर्महामोहवणगस्तां न लक्षये। नष्टबुद्धिः प्रलापेन तं शोकमनुवर्तयन् / 133 Upamitabhavaprapaiicakatha, Fasc. XII, Ner Series, No 1171. For Private and Personal Use Only