________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1056 उपमितिमवप्रपश्चा कथा / संजातोऽहं पशोस्तुल्यस्तद्दीर्घास्ते पलाशकाः // ततो विषयमून्धिो धनसञ्चयतत्परः / भूरिकन्यापिरण्याथ पौडयामि महौजनम् // अन्तःपुरसहस्राणि भूरिभोगपिपामया / हिरण्यमतकूपानां मौलितानि शतानि च // अहिरण्यौकता पृथ्वी महामोहवशेन च / तत्पापं न जगत्यस्ति यत्तदा न कृतं मया // म च पुण्योदयोऽभौष्टं सर्व ढोकयते मम / मया तु तन्त्र विज्ञातं ततोऽसौ कुपितो मनाक् // ततश्च मे महादेवी नाना मदनसुन्दरौ / अत्यन्तवल्लभाभूत्मा मृता शूलेन विहला // अत्रान्तरे समायातः स्वामिमूलं विनीतकः / प्रतिजागरको भद्रे शोकनामा मनुष्यकः // स प्रणम्य महामोहं स्वामिनं विहितादरः / ततश्चावसरं ज्ञात्वा मामालिङ्गति मायया // ततोऽहं कृतपूत्कारो दैन्याक्रन्दनरोदनम् / स्मृत्वा मृत्वा करोम्युच्चैर्देवौं मदनसुन्दरौम् // त्यतः शरीरसत्कारी राज्यकार्य प्रमादितम् / जातो ग्रहग्टहीताभस्ततोऽहं दुःखपूरितः // अथ मामकवृत्तान्तं कथंचिजनवार्तया / श्रुत्वाकलङ्कः कृपया मत्समौपमुपागतः // ततः स मां महाभागो दृष्ट्वा भोकवशौकतम् / For Private and Personal Use Only