________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। 1055 ततश्चेदं गुरोर्वाक्यमाकत्यिन्तपेशलम् / . भने ऽग्टहीतसङ्केते तदा मे हदि मंस्थितम् // अये मां त्याजयत्येष महामोहपरिग्रहौ / तथैष कारयत्युच्चैरादरं च सदागमे / एवं च स्थिते / अहं किं करवाणौति यावचिन्तामुपागतः / तावन्ममाशयज्ञानादकलङ्घन जल्पितम् // यदुत / बुद्धं भगवतो वाक्यं किं वा नो घनवाहन / मयोक्तं सुष्ट भो बुद्धं स प्राह क्रियतामिदम् // ततो गाढरूढतयाकलङ्कन साधैं प्रणयस्याचिन्यप्रभावतया भगवत्कोविदमूरिसन्निधानस्य प्रत्यासन्नवर्तितया कर्मग्रन्थिस्थानस्य प्रत्युत्तरदानसामर्थ्य विकलतया च प्रतिपन्नं तदाकलङ्कवचनं अभ्यर्णीभूतो भूयः सदागमः अनुशौलितं चैत्यवन्दनादिकं अनुगणितं पूर्वपठितादिकं प्रवर्तितं पुनर्दानादिकं ईषद्रीभूतौ महामोहपरिग्रही द्रव्यतोऽकलङ्कलज्जया न पुनर्भावमारतया / ततोऽहं विगतमूई व सांसारिकपदार्थषु संतुष्टचित्त इव विभवनिचयेषु तदाकलितोऽकलङ्केन। ततो गतः सोऽन्यत्र विहाराय मह सूरिणा। ततस्तं दूरगं मत्वा महामोहपरिग्रहौ / भूयोऽप्युलमितौ भद्रे दूरीभृतः सदागमः // ततः शिथिलितं कृत्यं विस्मता धर्मदेशना / For Private and Personal Use Only