________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / अदृष्टतलपर्यन्ते दुरन्तावर्तभोषणे // तदिदं ते मयाख्यातं सूरिपोक कथानकम् / यत्तदा मम मंजातं भद्र वैराग्यकारणम् // ततो ग्टहौतभावार्थः प्रोत्फुल्लमुखपङ्कजः / सोऽकलको मुनि नत्वा प्रवृत्तोऽन्य मुनि प्रति // मयोक्तं / श्राख्याहि मित्र भावार्थ पृष्टे वैराग्यकारणम् / असंबद्धं किमाख्यातं मुनिनेदं कथानकम् // अकलङ्केनोक्तं। भद्र धनवाहन नेदमसंबद्धमुदाहरणं / श्राकर्णय त्वमस्य भावार्थे / मयोत / एष दत्तावधानोऽस्मि / अकलङ्केनोक्तं। वसन्तपुरस्थानीयोऽत्रासांव्यवहारिको जीवराशिः। वाणिजकाः पुनयथार्थनामानस्ततो निर्गताश्चतुर्विधा जीवाः / समुद्रः पुनरत्र जन्मजरामरणसलिलो मिथ्यादर्शनाविरतिगम्भौरो महाभौषणकषायपातालः सुदुलध्यमहामोहावर्तरौद्रो विचिचदुःखौघदुष्टजलचरपूरितो रागद्देषजवनपवनविक्षोभितः संयोगवियोगवौचौनिचयचटुलः प्रबलमनोरथवेलाकुलोऽनवलोकितपरापरपारः संसारविस्तारो विज्ञेयः / रत्नदीपस्थानीयो ऽयं मनुष्यभवो मन्तव्यः / काननादिकुढ़हलं तु विषयाभिलाषो द्रष्टव्यः / अक्षशङ्खकपर्दककाचशकलादिकल्पाः सर्वज्ञप्रणीतधर्मविपरीताः कुधर्मा बोद्धव्याः। धर्तलोकः कुतौर्थिकवों ज्ञातव्यः / बोहित्थस्थानीयानि पुनरत्र जीवस्वरूपाणि वर्तन्ते / स्वस्थानगमनं मोक्षावाप्तिर्मन्तव्या प्रात्मलाभरूपत्वात्तस्याः / यस्तु मूढस्योपरि क्रुद्धो नरेन्द्रः स स्वकर्मपरिणामो विज्ञेयः / For Private and Personal Use Only