________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 878 उपमितिभवप्रपञ्चा कथा। भगवतां ममोपरि करुण। चिन्तितमेतैः / यथा / अयं मद्यदोषेण भूरि दुःखमनुभवति वराकः। ततः कथंचित्कारयामोऽमुं मद्यविरतिं येन यथा वयं सुखिनः संपन्नास्तथायमपि सुखितो भवति। ततो विहितस्तैर्मम प्रतिबोधनार्थं यत्नः। अहं तु मदिरामदापूर्णितः पूत्कुर्वतामपि तेषां न किंचिच्चेतयामि अलब्धचेतनश्च पुनः पुनः पर्यटामि तेषु सर्वेषु लोकभेदेषु / बडशो वदतां पुनः क्वचित्तेषां ब्राह्मणानां दत्तो मया इंकारः। ततस्तावत्र्यतितं यावदपगतो मे मदिराघस्मारकः / समामादिता चेतना। दत्तं प्रतिवचनं / ततः कथितास्तैर्मम मद्यदोषाः / प्रत्यायितोऽहं / कारितो मद्यविरतिं। संजातोऽहमपि तादृशो ब्राह्मणः / ते तु ब्राह्मणाः सर्वेऽपि प्रव्रजिताः। ततोऽहमपि तेषां मध्ये प्रव्रजितः / केवलं न जौर्यति ममाद्यापि निःशेषं मद्याजीर्ण। तदपि प्रव्रज्यया जरयिष्यामि / तदिदं भटू मम वैराग्यकारणमिति। तदेवं भद्रग्टहीतसङ्केते थावदिदमावेदयति स माधुस्तावदकलङ्कस्य किमनेन निवेदितमिति प्रवृत्तो विमर्शः। ततो विचारयतः संजातं जातिस्मरणं / स्मृतं पूर्वभवाभ्यस्तं श्रुतं / ततो लक्षितो मुनिवचनस्य भावार्थः / प्रमुदिती मनमा / वन्दितो मुनिवरः / प्रवृत्तस्तृतीयमुनेरभिमुखं / पूर्ववत्पुनः पृष्टो मया यथा किमनेनाख्यातमिति / ततोऽभिहितमकलङ्केन / भद्र घनवाहन अयमपि संसार एवापानकरूपतयानेन मुनिनात्मनो वैराग्यकारणमित्याख्यातः / तथाहि / सत्यमापानकरूप एवायं हन्त समारो वर्तते। यतोऽत्र वृत्ता वर्तन्ते वीन्ति चानन्ता वृत्तान्ताः। मत्तपालकायन्तेऽत्रानन्ता जीवाः / ना नत्ता For Private and Personal Use Only