________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / ततो ममोपरोधेन क्रीडित्वा प्रहरदयम् / अथ मध्याहकालेऽसौ प्रस्थितो ग्रहमंमुखम् // मयोक्तमत्र विश्रम्य मन्दिरे काननान्तरे। ततो गेहे गमिथ्यावः स्थौयतां क्षणमात्रकम् // ततोऽकलङ्कस्तखा मामकं वचनं तदा / उद्यानमध्यभागस्थे प्रविष्टो जिनमन्दिरे // तत्राभिष्ट्रय सद्भक्त्या भगवन्तं जिनेश्वरम् / निर्गतेन मया साधं दृष्टास्तेन सुमाधवः / / ते च तत्राष्टमौं मत्वा स्वकीयवसतेस्तदा / भागता लोकनाथस्य वन्दनार्थमुपोषिताः // ततस्ते विधिवत्मा वन्दित्वा भुवनेश्वरम् / बहिः सिद्धान्तसूत्राणि गुणयन्ति पृथक् पृथक् // परस्परं स्थिता दूरे स्थिरा निर्मलकान्तयः / बहिर्वीपसमुद्रेषु चन्द्रा व महाधियः // अत्यन्तसुन्दराकारा यथेष्टफलदायिनः / तदानौं ते विराजन्ते कल्पपादपमनिभाः // ततोऽभिहितमकलङ्केन / कुमार धनवाहन पश्य पश्येमे मुनयो भगवन्तो मकरकेतना इव रूपेण दिनकरा व तेजखितया सुरशिखरिण दुव स्थिरतया सागरा व गम्भीरतया महर्द्धिसुरकुमारा व लावण्यसमुदयेन दृश्यन्ते / तत् किं पुनर्भगवताममौषामेवंविधगुणयोगेन भुवनराज्योचितानामपौदृशामत्यन्तदुश्चरकष्टचर्याग्रहणे कारणमभूदिति सकौतुकं नश्चेतः / तदेहि For Private and Personal Use Only