________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। कामिनौइदयानन्ददायको जमभीरुकः / चण्डकर्मा मृदुश्चान्ते मेषे जातो भवेन्नरः // अपमृत्युभवेत्तस्य किलाष्टादशवत्सरे / पञ्चविंशतिपर्यन्तवर्षे वापि कथंचन // भ्रष्टस्ताभ्यां पुनर्जीवेच्छतमेकं म्रियेत वा / कृत्तिकाखर्धरात्रेऽसौ चतुर्दश्यां च मङ्गले // भोगी दाता शचिर्दक्षः स्थूलगण्डो महागलः / तेजस्वी रागबहुलः कण्ठरोगी सुपुत्रकः // मविलासगतिः सत्यो लाञ्छनी स्कन्धगण्डयोः / एवं गुणगणोपेतो वृषे जातो भवेवरः / स समानां शतं जौवेत्पञ्चविंशतिको यदि / भ्रयेच्चतुष्यदात्तस्य मरणं रोहिणीबुधे // पुष्टाङ्गो दृष्टिलोलश्च मैथुनासतमानसः / धनाढ्यः करुणोपेतः कण्ठरोगी जनप्रियः // गान्धर्वनाश्यकुशलः कौर्तिभागी गुणोत्कटः / गौरो दौर्घः पटुर्वाचि मिथुनोद्भूतमानवः // जले तस्यापमृत्युः स्थाइत्मरे किल षोडशे / अशीतिको मियेतासौ पौषमासे जलानले // कार्यमारो धनी शूरो धर्मिठो गुरुवत्सलः / शिरोरोगी महाबुद्धिः कृशाङ्गः कृतवेदकः // प्रवासशीलः कोपान्धो बाल्ये दुःखी सुमित्रकः / भृतभृत्यो मनावकः कर्कटोद्भूतमानवः // 121 Upamitibhavaprapanca Kathi, Fasc. XI, N.S. 1104, For Private and Personal Use Only