SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घछः प्रस्तावः / 655 च तेषां देहिनां विविधसुखदुःखहेतुलं प्रतिपद्यते तदेवं स्थिते वयमपि तस्य कर्मपरिणाममहाराजस्य सुता वर्तामहे / ततश्चास्माकमपि तद्राज्यमाभवत्येव / उत्तमसूरिणभिहितं / महाराज सम्यम् निश्चितं बाढमाभवत्येव तद्राज्यं भवतः / पालयसि च त्वं विमध्यमराज्यं / केवलं न लक्षयसि / यतः साधयसि वं विभव्य राबिंदिवं धर्मार्थकामलक्षणं परस्परमवाधया चिवगें। एतदेव च विमध्यमराज्यलक्षणं प्राग्व्याख्यातं / तत्किं नावधारितं भवता। हरिराजेनोकं / अलं ममानेन विमध्यमराज्येन / भदन्त दाप्यता महमपीदमात्मीयमुत्तमराज्यं / सूरिराह / महाराज सन्दरमिदं। केवलं / यथैतैः साधुभिर्लन्धमिदं राज्यं नरोत्तम / तथैव सभ्यते नूनं नापरं लाभकारणम् // एतेऽप्यस्मिन् मयाख्याते स्वराज्योऽतिमनोहरे / अत्यन्तमस्पृहा जातास्तालाभार्थं यथा भवान् // ततो मयोदिता भूप पूर्वमेते सुमाधवः / यथा भागवतौं दीक्षां विना नैतदवाप्यते // ततोऽमौभिः प्रपत्रा सा दीक्षा कल्पनाशनी / प्राप्तं च तन्महाराज्यं सुखसम्भारकारणम् // अतस्तवापि यद्यस्ति तत्र वाञ्छा नरेश्वर / राज्ये तह तामेषा दीक्षा भागवतो त्वया // हरिराजेनोतं / एतावन्मात्रतो नाथ सुखसन्दोहदायकम् / यद्याप्यते महाराज्यं तत्ततः किं विक्षम्यते / For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy