________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 54 उपमितिभवप्रपचा कथा। ते गणास्तत्सुखं सा च विभूतिस्तच्च चेष्टितम् / ममापौह महाराज संपचं नास्ति संशयः // इदं हि राज्यं कुर्वाणो भक्तिप्रहः सुरादिभिः / अहं गुणगणोपेत इति धन्यतया स्तुतः // तथा / खसंवेदनसंसिद्धं यदत्र परमं सुखम् / राज्ये मे तिष्ठतो भूप तनु वक्तुं न पार्यते // तथा / कोटयो रत्नरामौनामसंख्यातं च मे बलम् / चतुरङ्ग महाराज विभूतिरियमौदृशौ / तथा / यसिद्धान्तोदितं कृत्यं कृतं तेन महात्मना / उत्तमेन तु देवाहं करोमोति विचेष्टितम् // तत्कर्मपरिणामस्य यथाहमधुनोत्तमः / जातः सुतस्तथान्येऽपि मिष्टाद्या न संशयः // अविच्छिन्नप्रवाहेण तद्राज्यमपरे ऽपरे / एकरूपमने केऽपि युगपगुचन्ति पार्थिवाः // ततो रहौतभगवदचनभावार्थेनाभिहितं हरिनरेन्द्रेण / भदन्त यद्यते भवनोदर विवरचारिणः सर्वेऽपि देहिनस्तस्य कर्मपरिणाममहाराजस्य सूनवः परमार्थेन यदि च तदन्तरङ्गं चित्तवृत्तिमहाभूमिराज्यं तेभ्यः सर्वेभ्यस्तेन कर्मपरिणामेन दीयते तच दत्तं मदेकरूपमपि पात्रविशेषादनेकरूपतया परिणमति नानारूपाणां For Private and Personal Use Only