________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः / 851 अप्रबुद्धः समाकी चेतमा पर्यचिन्तयत् // अये। यथैव दिष्टं पूर्व मे सिद्धान्तेन महात्मना / तथैव सकलं जातं नान्यथा तस्य भाषितम् // तथाहौदं तेन सिद्धान्तेन भाषितं पूर्वमामौत् / तद्यथा / किलैकमपि तद्राज्यं कारणं सुखदुःखयोः / भवेत्पालनमाश्रित्य नृणां पाचविशेषतः // तच्चेदं मे वितर्केण तथैवात्र निवेदितम् / संभवेदन्यथाभावः कुतः सिद्धान्तभाषिते // तथाहि / निकृष्टाधमयोतिं तदुःखस्यैव कारणम् / दुष्पालितं कृतं ताभ्यां तद्राज्यं सर्वथा यतः // विमध्यमस्य संपवं तत्वत्पसुखकारणम् / यतः / बहिर्भूतेन तेनेदं विहितं मन्दपालितम् // मध्यमस्य पुनर्जातं तद्दीर्घसुखकारणम् / यतः प्रविश्य तेनेदं पालितं किंचिदादरात् // निःशेषसुखसम्भारकारणं राज्यमुच्चकैः / विशिष्टपालनाब्जातं तदुत्तमवरिष्ठयोः // किं च / एतदार्षिकराज्यानां षद्धं कलयता मया / सर्वमेव हि विज्ञातं यतः प्रोकं मनीषिभिः // For Private and Personal Use Only