________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तायः। 825 लोके मातङ्गडोम्बाद्यास्तेषां रूपं भजत्यसौ // तथापि वल्लभास्तेऽस्य महामाहादितस्कराः / चारित्रधर्मसैन्यस्य नामाप्येष न बुध्यते // किं च / दुष्यालितं कृतं राज्य भवतेत्यस्य चोपरि / स कर्मपरिणामाख्यो राजा रोषमुपागतः // ततोऽस्ति भवचक्रे यदुष्करं पापिपञ्जरम् / नौतस्तत्र निकृष्टोऽसौ तेन राजा वराककः // पौद्यते च महादुःखैस्तत्रानन्तैरनेकशः / म कर्मपरिणामेन निकृष्ट इति विश्रुतम् // ततो मया चिन्तितं / एक राज्य प्रवेशोऽपि न लब्धस्तेन तस्करैः / हारितं च निजं राज्य समृद्धं सैन्यमुत्तमम् // स्थितश्चेदापि दुःखातों राज्यभ्रष्टो बहिष्कृतः / द्वितीयं पौद्यते तत्र म निकृष्टो निरर्थकम् // तदस्य सकलं हन्त निकृष्टस्य दुरात्मनः / अज्ञानदोषतो जातमिदं दुःखकदम्बकम् // तथाहि / यद्यात्मानं विजानौत तद्राज्य रत्नपूरितम् / चारित्रधर्मसैन्यं च प्रपद्येत सुहृत्तमम् // महामोहादिसैन्यं च यद्यमौ शत्रुमत्रिभम् / अवगच्छेत्ततस्तस्य कुतो दुःखपरम्परा // For Private and Personal Use Only