________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / न दत्तमेव तैर्देव महामोहादितस्करैः / किं तर्हि / खयमेव वशौचत्य निःशेष भूमिमण्डलम् / चारित्रधर्मसैन्यं च विनिर्जित्य विनाश्य च // तदन्तरङ्गतद्राज्य महामोहादितस्करैः / अधिष्ठितं बहिष्कृत्य निकृष्टं स्वयमेव भोः // ततस्तत्तादृशं दृष्ट्वा देव सर्वं विसंस्थुलम् / गतोऽहं बहिरङ्गेषु तं दिदृशुर्जनेषु भोः // अथ दृष्टो मया देव स निकृष्टो नराधिपः / बहिरङ्गेषु देशेषु राज्यभ्रष्टः सुदुःखितः // सच कीदृशः / पापकर्मरतो दौनः करात्मा लोकनिन्दितः / निःशेषपुरुषार्थेभ्यः परिभ्रष्टो नराधमः // स्फुटिताङ्गो मलक्लिनः पापपुञ्जकसन्निभः / म निकृष्टो मया दृष्टः परभैय्यकरः सदा // खोयराज्यपरिभ्रष्टो लेोके दुर्भगतां गतः / यो रहे परिभूतोऽत्र म बहिः परिभ्यते // विक्रीय हणकाष्ठानि कृत्वा वा हलखेटनम् / हत्वा वा जन्तुसङ्घातं नौत्वा वा लेखमालिकाम् // विधाय निन्द्यकर्माणि मोढाक्रोशशतानि च / म निकृष्टः करोत्यच्चैर्दष्यूरोदरपूरणम् // ये केचिदुःखिताः पापाः क्रूरकर्मविधायिनः / . For Private and Personal Use Only