________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घष्ठः प्रस्तावः। ततोऽहं त्यकमर्यादा गाढं निर्लज्जतां गतः / अन्त्यजास्वप्यहप्तात्मा प्रवृत्तो मैथनेच्छया // ततश्च / बहुशस्ताडितो भद्र बद्धो गाढं विगापितः / प्रापितो लाघवं लोके योषित्सम्बन्धिभिनरैः // केवलं हरिदाक्षिण्यात्पुण्योदयबलेन च / न मारितस्तदा स्त्रीणां खजर्नापि दण्डितः // धिक्कारविहितो लोके निन्द्यः सर्वविवेकिनाम् / तदा मैथुनदोषेण संजातोऽहं सुलोचने // तथापि मूढचित्तस्य तदा भद्रे स मैथुनः / सुखसागरहेतु निर्व्याजं प्रतिभासते // चिन्तयामि च यस्यायं मैथुनो न वयस्यकः / किं तेन जौवितेनेह जौवन्नेव मृतो ह्यसौ // ततोऽहं तत्र निर्मिथ्यस्नेहनिर्भरमानसः / तस्य दोषान्न पश्यामि पश्यामि गुणसंहतिम् // एवं विपर्यस्तधियः स मे वल्लभतां गतः / ततोऽपि वल्लभतरः सागरो मे विशेषतः // चिन्तितं च सदा मया / प्रभावः सागरस्यायं यदेते देवदुर्लभाः / अकिञ्चनेन संप्राप्ता मया माणिक्यराशयः // तदेवं मित्रयुग्मेन तेन दुःखैः प्रपौडितः / तथापि सुस्थितंमन्यो मोहादम्मि स्थितोऽनघे // 113 For Private and Personal Use Only