________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 उपमितिभवप्रत्तचा कथा / तथा / तस्यैव प्रतिबद्धोऽस्ति द्वितीयो गात्रनामकः / प्रामादः स्थापितस्तत्र स मया यौवनस्तदा // अथ तौ निजवीर्यण ततः प्रासादयोस्तयोः / ललमानौ मया साधैं किं किं कर्तुं समुद्यतौ // यौवनेन कृता भद्र बलान्मेऽतिमनोहराः / लोलाविलासविब्बोकहास्यशौर्यादयो गुणाः // मैथुनेन पुनर्भद्र कृतोऽहं योषितां शतैः / सुभुक्तरप्यनप्तात्मा दावानल इवेन्धनैः // प्रधानगणिकामङ्गं कुर्वाणं मैथुनेच्छया / माममौ वारयत्युच्चैः सागरो धनलम्पटः // दूतो हि मैथुनस्याज्ञा इतः सागरवारणम् / म व्याघ्रस्त टोन्यायः संजातो मे सुदुस्तरः / / तथातिवल्लभो भद्र सागरो मे विशेषतः / केवलं मैथुनस्याज्ञां नाहं लवयितुं क्षमः // उभयस्यापि कर्तव्यं मयेति वचनं किल / एवं संचिन्त्य विहितं मयेदं कर्म दारुणम् // किं च तत्कर्म / याः काचिदालविधवा रण्डाः प्रोषितभलकाः / वतिन्योऽन्याश्च मूल्येन विनैव वशगाः स्त्रियः // तासु सागरभीतोऽहं मैथुनाज्ञाविपालकः / कार्याकार्यमनालोच्य प्रवृत्तो मूढचेतनः // For Private and Personal Use Only