________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पछः प्रस्तावः। सूर्योदयसमये मित्रवृन्दपरिकरितो लोलासुन्दरमुद्यानं प्रति प्रवृत्तो हरिकुमारः। चिरं च विलोकितो लोललोचनया वत्मया। न च कथंचिदृष्टिगोचरमागता तस्य वत्मा मयूरमञ्जरौ। ततस्तदभिलाषेण दुर्भगताशङ्कया चात्मनस्तत एव क्षणादारभ्येयमीदृशीमवस्यां प्राप्तेति / तदिदं ज्ञानालोकेन यथावलोकितं भगवत्या तथा भगवत्येव करोतु तेन सह वत्सायाः समागममिति / मयोक्तं / यद्येवं ततो निरूपयामि तस्य कुमारस्य कौदृशोऽभिप्राय इति / महादेवी प्राह / यत्त्वं जानौषे किमत्र वयं ब्रूम इति / ततो निर्वर्ण्य लिखिता मया तथा चित्रपट्टिकायां मयूरमञ्जरौ / गता लीलासुन्दरोद्याने / दृष्टो हरिकुमारः / समर्पिता चित्रपट्टिका / निरूपितोऽस्य भावः / लक्षितोऽयं साभिलाषः / ततः सिद्धं नः ममोहितं पृच्छामि यदतः परं कर्तव्यं महादेवौमिति चिन्तयन्ती शौघं ततोऽपक्रान्ताहं / निवेदितं महादेव्यै / यथा मुष्टिमध्ये मम वर्तते हरिकुमारः / तत्कथय किमधुना क्रियतामिति / तदाकर्ण्य हृष्टा शिखरिणौ दुहितरं प्रत्याह / वत्से मयूरमञ्जरि समाकर्णितं त्वयेदं भगवतीवचनं यल्लब्धस्ते हृदयवल्लभ इति / मयरमञ्जरौ प्राह / श्राः मातः किमित्येवमालजालेन मां वित्रतारयसि / ततो नास्याः संप्रत्यय इति किं कालरूपेणेति कथितो महाराजाय शिखरिण्या समस्तोऽपि व्यतिकरः / ततोऽभिरुचितो नीलकण्ठाय मयूरमचर्या वरो हरिकुमारः / ततस्तदानयनार्थमहमेव प्रहिता ताभ्यामिति। तदेष भद्र चित्रपट्टिकातान्तः / एषा सा कन्यका / एतदर्थं चाहमुचलितास्मि // मयोक्त। 112 For Private and Personal Use Only