________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः। __ 865 खनामि रोहणं यावत्पातालतलमुच्चकैः // अहो गिरिदरौं गत्वा संप्राप्य रसकूपिकाम् / धातुवादबलेनैव दधे स्वर्णं यथेच्छया // एवं विविधकलोलैर्धनोपार्जनकाम्यया / मित्रसागरवीर्येण हतोऽहं बहुशस्तदा // अत्रान्तरे मचिन्तस्य दृष्टिस्तरलतारिका / पुरःस्थिते गता भद्रे मम किंशुकपादपे // यावद्विनिर्गतस्तस्य शाखाया वौक्षितो मया / प्रारोहो भूमिसंप्राप्तः क्रशीयान् कृतविस्मयः // तं च किंशुकपादपप्रारोहमवलोक्य स्मृतो मयाभिनवशिक्षितः खन्यवादः। चिन्तितं च। नूनमत्यत्र किंचिद्धनजातं / यतोऽभिहितं खन्यवादे / नात्येव चौरवृक्षस्य प्रारोहो धनवर्जितः / स्तोकं वा भूरि वा तत्र ध्रुवं बिल्वपलाशयोः / प्रारोहे भूरि तत् स्थूले तनुके स्तोकमुच्यते / रात्रौ ज्वलति तद्भरि सोमणि स्वल्पमौरितम् / विद्वे तत्र भवेद्रक यदि रत्नानि लक्षयेत् / श्रय चौरं ततो रूप्यं पौतं चेत् कनकं भवेत् // प्रारोहः स्यादुपयुचैर्यन्मात्रेऽधोऽपि तावति / प्रदेशे निहितं नूनं विद्यते तनिधानकम् // उपरिष्टात्तनुश्चेत्स्यादधस्तात् पृथुलो यदि / प्रारोहोऽसौ निधिं प्राप्तो विपरीतस्तु मोऽन्यथा // 109 Upaniitibhavaprapalici Katha. Vol. I. Fasc.X. N.S. No 1140, For Private and Personal Use Only