________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। विद्यते विपुलं वत्म कुतक्रमममागतम् / धनं ते दानसम्भोगविलासकरणक्षमम् // तनदेव धनं वत्म नियुञ्जानो यथेच्छया / ग्टहे तिष्ठ न शनोऽस्मि स्थातं हि रहितस्त्वया // मयो / या पूर्वपुरुषैस्तात भूरिलक्ष्मोपार्जिता / तां भुञानस्य मत्पुंमः कथं न त्रपते मनः // मातेव स्तनपानेन सा बालैः परिभुज्यते / अवाप्तपौरुषाणां तु तद्भोगो लब्जनीयकः // भुज्यमाना च मा तात कियत्कालं भविष्यति / बिन्दुभिः क्षयमायाति समुद्रोऽप्यनुपार्जनः // तन्मे धनार्जनोत्साहं न तातो भंतमहति / अत एव विसोढव्या तातेन विरहव्यथा // किंबहुना। यावगुजबलेनोच्चै!पात्ता रत्नराशयः / गत्वा देशान्तरं तात तावन्मे न सुखासिका // तत्सर्वथापि गन्तव्ये मदौयमनसि स्थिते / कथं विघातस्तातेन गमनस्य विधीयताम् // ततो विज्ञाय निर्बन्ध तादृशं हरिशेखरः / मामुवाच तथा भद्र स्नेहाभूतमानमः // यथेष निश्चयो वत्म स्थितस्ते मनमि स्थिरः / तद्विधेहि निजाकृतं पूर्यतां ते मनोरथः // For Private and Personal Use Only