________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / इदमेव परं भूप निर्भयस्थानमुत्तमम् / अमौभिनुष्यमानस्य जैनेन्द्रं वरशासनम् // एवं च ज्ञाततत्त्वानां प्रवेष्टुमिह युज्यते / न युक्त क्षणमप्येकं धरानाथ विलम्बितम् // त्यज्यन्तां विषया भूप कालकूटविषोपमाः / श्राखाद्यतामिदं दिव्यं प्रशमामृतमुत्तमम् // ततो धवलराजेन विहस्य विमलः क्षणम् / तथा सर्वेऽपि ते लोकाः माकृतं प्रविलोकिताः // उक्त च। भो भो लोका यदादिष्टं भदन्तेन महात्मना / इदमाकर्णितं चित्ते लग्नं च भवतां वचः // ततस्ते बुधमनानोः प्रतापेन प्रबोधिताः / कमलाकरमकामा प्रोत्फुल्लमुखपङ्कजाः // भक्त्या ललाटपट्टेषु विन्यस्तकरकुड्मलाः / सर्वेपि लोकास्तत्रेदं समकालं प्रभाषिताः // बाढमाकर्णितं देव वचोऽस्माभिर्महात्मनः / विज्ञातस्तस्य सद्भावो महाभागप्रसादतः // विधूयाज्ञानतामिस्रं मनोऽनेन प्रकाशितम् / जौविताश्चामृतेनैव मिथ्यात्वविषपूर्णिताः // तल्लनमिदमस्माकं चित्ते गाढं मुनेर्वचः / . संपाद्यतां तदादिष्टं मा विलम्बो विधीयताम् // एतत्वाकर्ण्य राजेन्द्रः परं हर्षमुपागतः / For Private and Personal Use Only